पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९४ बृहत्स्तोत्ररत्नाकरे ed हीनस्त्वं सर्वविग्रहवानपि । सर्वेद्रियाणां विषयं जानासि नेंद्रियी भवान् ॥ ८ ॥ सरस्वती जडीभूता यत्स्तोत्रे यनिरूपणे | जडीभूतो महेशश्च शेपो धर्मो विधिः स्व- यम् ॥ ९ ॥ पार्वती कमला राधा सावित्री वेदसूरपि । वेदश्च जडतां याति के वा शक्ता विपश्चितः ॥ १० ॥ वयं किं स्तवनं कुर्मः स्त्रियः प्राणेश्वरेश्वर | प्रसन्नो भव नो देव दीनबंधो कृपां कुरु ॥ ११ ॥ इति पेतुश्च ता विप्र- पत्यस्तच्चरणांबुजे | अभयं प्रददौ ताभ्यः प्रसन्नवदने- क्षणः ॥ १२ ॥ विप्रपत्नीकृतं स्तोत्रं पूजाकाले च यः पठेत् । स गतिं विप्रपत्नीनां लभते नात्र संशयः ॥ १३ ॥ इति श्रीब्रह्मवैवर्ते महापुराणे कृष्णजन्मखंडे विप्रपत्तीकृतकृ ष्णस्तोत्रं समाप्तम् ॥ १३४. गोपालविंशतिस्तोत्रम् | श्रीगणेशाय नमः ॥ श्रीमान् वेंकटनाश्रायः कवितार्किक - केसरी | वेदांताचार्यवर्यो मे संविधतांसह हृदि ॥१॥ वंदे वृंदावनचरं बल्लवीजनवल्लभम् | जयंतोसंभवं धाम वैजयंतीविभूषणम् ॥ २ ॥ वाचं निजांकरसिकां प्रसमी- क्षमाणो वकारविंदवि निवेशितपांचजन्यः । वर्णत्रिको- णरुचिरे वरपुंडरीके बद्धासनो जयति बलवचक्रवर्ती ॥ ३ ॥ आम्नायगंधरुचिरस्फुरिताधरोष्टमस्राविलेक्षण- मनुक्षणमंदहासम् । गोपालडिंभवपुषं कुहनाजनन्या-