पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८४ बृहत्स्तोत्ररलाकरे ना यस्य ध्यानं व्रजति पशुतां सूकरमुखां विना यस्य ज्ञानं जनिमृतिभयं याति जनता | बिना यस्य स्मृत्या कृमिश- तजनिं याति स विभुः शरण्यो लोकेशो मम० ॥ ६ ॥ नरातंकोत्तंकः शरणशरणो भ्रांतिहरणो घनश्यामो चामो व्रजशिशुवयस्योऽर्जुन सखः । स्वयंभूर्भूतानां जनक उचि ताचारसुखदः शरण्यो लोकेशो मम० ॥ ७ ॥ यदा धर्म- ग्लानिर्भवति जगतां क्षोभकरणी तदा लोकस्वामी प्रक- टितवपुः सेतुष्टगजः । सतां धाता स्वच्छो निगमगुणगीतो व्रजपतिः शरण्यो लोकेशो मम० ॥ ८ ॥ इति हरिर- खिलात्माराधितः शंकरेण श्रुतिविशदगुणोऽसौ मातृमो- क्षार्थमाद्यः । यतिवरनिकटे श्रीयुक्त आनिर्बभूव स्त्रगुण- वृत उदारः शंखचक्राजहस्तः ॥ ९ ॥ इति श्रीमच्छंकरा- चार्यविरचितं कृष्णाष्टकं संपूर्णम् ॥ १२७. जगन्नाथाष्टकम् | श्रीगणेशाय नमः ॥ कदाचित्कालिंदीतटविपिनसंगीतक- रवो मुदामीरीनारीवदनकमलास्वादमधुपः । रमाशंभु- ब्रह्मामरपतिगणेशार्चितपदो जगन्नाथः स्वामी नयनपथ- गामी भवतु मे ॥ १ ॥ भुजे सव्ये वेणुं शिरसि शिखि- पिच्छं कटितटे दुकूलं नेत्रांते सहचरकटाक्षं विदधते । सदा श्रीमद्वृन्दावनवसतिलीलापरिचयो जगन्नाथ: स्वामी० ॥ २ ॥ महांभोधेस्तीरे कनकरुचिरे नीलशिखरे वसन्प्रा-