पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६ बृहत्स्तोत्ररताकरे पुरुषोत्तमम् ॥ २० ॥ इति श्रीनारदपंचरात्रे ज्ञानामृत- सारे श्रीकृष्णस्तवराजः संपूर्णः ॥ १२०. भगवन्मानसपूजा | श्रीगणेशाय नमः ॥ हृदंभोजे कृष्णः सजलजलदश्याम- लतनुः सरोजाक्षः स्रग्वी मुकुटकटकाद्याभरणवान् । शर द्राकानाथप्रतिमवदनः श्रीमुरलिकां वहन्ध्येयो गोपीग- णपरिवृतः कुंकुमचितः ॥ १ ॥ पयोंभोधेद्वपान्मम हृदयमायाहि भगवन्मणिव्रातभ्राजत्कनकवरपीठं भज हरे । सुचिह्नौ ते पादौ यदुकुलज नेनेज्म सुजलैगृहाणेद दूर्वाफलजलवदर्ध्य मुररिपो ॥ २ ॥ त्वमाचामोपेंद्र त्रिद- शसरिदंभोऽतिशिशिरं भजस्वेमं पंचामृतरचितमालावम- घहन् । धुनद्याः कालिंद्या अपि कनककुंभस्थितमिदं जलं तेन स्नानं कुरु कुरु कुरुष्वाचमनकम् ॥ ३ ॥ तडिहर्णे वस्त्रे भय विजयकांताधिहरण प्रलंबारिभ्रातमृदुलमुपवीतं कुरु गले । ललाटे पाटीरं मृगमदयुतं धारय हरे गृहाणेदं माल्यं शतदलतुलस्यादिरचितम् ॥ ४॥ दशांगं धूपं सद्व- रदचरणाग्रेऽर्पितमये मुखं दीपेनेंदुप्रभवरजसा देव कलये | इमौ पाणी वाणीपतिनुत सकर्पूररजसा विशोध्याग्रे दत्तं सलिलमिदमाचाम नृहरे ॥ ५ ॥ सदा तृप्तानं षड्सवद- खिलव्यंजनयुतं सुवर्णामने गोघृतचषकयुक्ते स्थितमिदम् । यशोदासूनो तत्परमदययाऽशान सखिभिः प्रसादं वां- de