पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२६ बृहत्स्तोत्ररताकरे लक्ष्मीपते कमलनाभ सुरेश विष्णो वैकुंठ कृष्ण मधुसू दन पुष्कराक्ष | ब्रह्मण्य केशव जनार्दन वासुदेव देवेश देहि कृपणस्य करा० ॥ १२ ॥ यन्माययोर्जितवपुः प्रचुर ग्रवाहमझार्थमन्त्र निवहोरुकरावलंबम् । लक्ष्मीनृसिंहचर- णामधुनतेन स्तोत्रं कृतं सुखकरं भुवि शंकरेण ॥ १३ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छंकराचार्यविर- चितं संकष्टनाशनं लक्ष्मीनृसिंहस्तोत्रं संपूर्णम् ॥ १००. वामनस्तोत्रम् । श्रीगणेशाय नमः ॥ अदितिरुवाच | यज्ञेश यज्ञपुरुषाच्युत तीर्थपाद तीर्थ श्रवः श्रवणमंगलनामधेय | आपन्नलोक- वृजिनोपशमोदयाऽऽद्य शं नः कृधीश भगवन्नसि दीन- नाथः ॥ १ ॥ विश्वाय विश्वभवनस्थितिसंयमाय स्वैरं गृहीतपुरुशक्तिगुणाय भूम्ने । स्वस्थाय शश्वदुपबृंहितपूर्ण- बोधव्यापादितात्मतमसे हरये नमस्ते ॥ २ ॥ आयुः परं वपुरभीष्टमतुल्यलक्ष्मीचौंर्भू रसाः सकलयोगगुणास्त्रिव र्गः । ज्ञानं च केवलमनंत भवंति तुष्टात्वत्तो नृणां किमु सपलजयादिराशीः ॥ ३ ॥ इति श्रीमद्भागवतांतर्गतं वामनस्तोत्रं संपूर्णम् ॥ a १०१. वामनस्तोत्रम् । श्रीगणेशाय नमः ॥ अदितिरुवाच । नमस्ते देवदेवेश