पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतारस्तोत्राणि | २२३ बहु मसा नारसिंहापरैः किम् ॥ ३ ॥ ऋषय ऊचुः । त्वं नस्तपः परममात्थ यदात्मतेजो येनेदमादिपुरुषात्मगतं ससर्ज । तद्विप्रलुप्तममुनाद्य शरण्यपाल रक्षागृहीतव- पुषा पुनरन्वसंस्थाः ॥ ४ ॥ पितर ऊचुः । श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजैर्दत्तानि तीर्थसमयेऽप्यपिबत्ति- लाम्बु । तस्योदरान्नखविदीर्णवपाद्य आर्च्छत्तस्मै नमो नृहरयेऽखिलधर्मगोपत्रे ॥ ५ ॥ सिद्धा ऊचुः । यो नो गतिं योगसिद्धामसाधुरहारषीद्योगतपोबलेन । नानादर्प तं नखैर्निदार तस्मै तुभ्यं प्रणताः स्मो नृसिंह ॥ ६ ॥ विद्याधरा ऊचुः । विद्यां पृथग्धारणयाऽनुराद्वां न्यषेध- दज्ञो बलवीर्यदृप्तः । स येन संख्ये पशुवद्धतस्तं माया- नृसिंहं प्रणताः स्म नित्यम् ॥ ७ ॥ नागा ऊचुः । येन पापेन रत्नानि स्त्रीरत्तानि हतानि नः । तद्वक्षःपाटने- नासां दत्तानन्द नमोस्तु ते ॥ ८ ॥ मनव ऊचुः । मनवो वयं तव निदेशकारिणो दितिजेन देव परिभूतसेतवः । भवता खलः स उपसंहृतः प्रभो करवाम ते किमनुशाधि किंकरानू ॥९॥ प्रजापतय ऊचुः । प्रजेशा वयं ते परे- शाभिसृष्टा न येन प्रजा वै सृजामो निषिद्धाः । स एष त्वया भिन्नवक्षानुशेते जगन्मङ्गलं सध्वमूर्तेऽवतारः ॥ १० ॥ गन्धर्वा ऊचुः । वयं विभो ते नटनाट्यगायका येनात्म- साडीर्यबलौजसा कृताः । स एप नीतो भवता दशा- मिमां किमुत्पथस्थः कुशलाय कल्पते ॥ ११ ॥ चारणा