पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणेशस्तोत्राणि । कालेषु गणाधिपं तं चित्तेन नित्यं परिपूजयामि । तेनैव तुष्टः प्रददातु भावं विश्वेश्वरो भक्तिमयं तु माम् ॥७९॥ गणेशपादोदकपानकं च ह्युच्छिष्टगंधस्य सुलेपनं तु । निर्माल्यसंधारणकं सुभोज्यं लंबोदरस्यास्तु हि भुक्तशेषम् || ८० || यं यं करोम्येव तदेव दीक्षागणेश्वरस्यास्तु सदा गणेश | प्रसीद नित्यं तव पादभक्तं कुरुष्व मां ब्रह्मपते दयालो ॥ ८१ ॥ ततस्तु शय्यां परिकल्पयामि मंदार कूर्पासकवस्त्रयुक्ताम् | सुवासपुष्पादिभिरचितां ते गृहाण निद्रां कुरु विघ्नराज || ८२ || सिधा च बुद्ध्या सहितं गणेशं सुनिद्वितं वीक्ष्य तथाहमेव | गत्वा स्ववासं च करोमि निद्रां ध्यात्वा हृदि ब्रह्मपति तदीयः ॥ ८३ ॥ एतादृशं सौख्यममोघशक्ते देहि प्रभो मानसजं गणेश | मह्यं च तेनैव कृतार्थरूपो भवामि भक्तिरसलालसोऽहम् || ८४ || गार्ग्य उवाच । एवं नित्यं महाराज गृत्समदो महायशाः । चकार मानसीं पूजां योगींद्राणां गुरुः स्वयम् ॥८५॥ य एतां मानसीं पूजां करिष्यति नरोत्तमः । पठि- व्यति सदा सोऽपि गाणपत्यो भविष्यति ॥८६॥ श्रावयि व्यति यो मर्त्यः श्रोष्यति भावसंयुतः । स क्रमेण महीपाल ब्रह्मभूतो भविष्यति ॥८७॥ यं यमिच्छति तं तं वै सफलं तस्य जायते। अंते स्वानंदगः सोपि योगिवंद्यो भविष्यति ॥ ८८ ॥ इति श्रीमदांये मौद्गल्ये मानसपूजा समाता ॥