पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२० बृहत्स्तोत्ररत्नाकरे धाय । ज्ञानेन वैराग्यबलेन धीरा व्रजेम तत्तेऽघ्रिसरोज- पीठम् ॥ ४ ॥ विश्वस्य जन्मस्थितिसंयमार्थे कृतावतारस्य पदांबुजं ते । व्रजेम सर्वे शरणं यदीश स्मृतं प्रयच्छत्य- भयं स्वपुंसाम् ॥ ५ ॥ यत्सानुबंधेऽसति देहगेहे ममाह - मित्यूढदुराग्रहाणाम् । पुंसां सुदूरं वसतोऽपि पुर्या भ जेम तत्ते भगवन्पदाम् ॥ ६ ॥ तान्वा असद्वृत्तिभि- रक्षिभिर्ये पराहृतांतर्मनसः परेश । अथो न पश्यंत्यु- रुगाय नूनं ये ते पदन्यासविलासलक्ष्म्याः ॥ ७ ॥ पानेन ते देव कथासुधायाः प्रवृद्धभक्त्या विशदाशया ये । वै- राग्यसारं प्रतिलभ्य बोधं यथांजसान्वीयुरकुण्ठधिष्ण्यम् ॥ ८ ॥ तथापरे चात्मसमाधियोगबलेन जित्वा प्रकृतिं बलिष्ठाम् | त्वामेव धीराः पुरुषं विशंति तेषां श्रमः स्यान्न तु सेवया ते ॥ ९ ॥ तत्ते वयं लोकसिसृक्षयाद्य त्वया- नुसृष्टास्त्रिभिरात्मभिः स्म । सर्वे वियुक्ताः स्वविहारतंत्रं न शक्नुमस्तप्रतिहतचे ते ॥ १० ॥ यावद्वलिं तेऽज हराम काले यथा वयं चान्नमदाम यत्र | यथोभयेषां त इमे हि लोका बलिं हरंतोऽन्नमदत्यनूहाः ॥ ११ ॥ त्वं नः सुराणामसि सान्वयानां कूटस्थ आद्यः पुरुषः पुराण | त्वं देवशक्त्यां गुणकर्मयोनौ रेतस्त्वजायां कबिमाद घेऽज: ॥ १२॥ ततो वयं सरप्रमुखा यदर्थे बभूविमात्मन्करवाम किं ते । त्वं नः स्वचक्षुः परिदेहि शक्त्या देवक्रियार्थे यद- out