पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ बृहत्स्तोत्ररताकरे ॥ ९३ ॥ चिदंशत्वाद्रूपं किमपि सवितुर्मंडलगतं वरेण्यं भर्गो वै त्रिविधतनुदेवस्य वपुषि । मुने धीमह्यासद्धरि- रपि धियो यो न इतरत्प्रचोदायास्तत्वं स्थितिलयसृज- स्त्वं मुनिपते ॥ ९४ ॥ हरिस्तंतुः प्रोतः सदसि शिखरे शुभ्रकपटो जगन्मूलस्थाणुस्त्वमिति सुभवस्पंदमुनिभिः । ज्वरीभिः स्वर्णाढ्यः पवनहतत हिंदुनि करैर्जरासक्तानाही- रुचिरमभिषिक्तः स्थित इव ॥ १५ ॥ दुराचारों जारश्च- पलमतिराजः परवशः परद्रव्याकांक्षी बहुजनविरोधी च सततम् । तदा चाहं पूरस्तव पदयुगे स्पर्शवशतो ह्ययःखंडः स्वर्णं भवति दि यदा सिद्धसुरतिः ॥ ९६ ॥ परिकांता देशा बहुतरधनस्यार्जनधिया कुलाचारं हित्वा कुमतिनृपसेवापि च कृता । विधायासौ श्रांतः किमपि नच लब्धं तु वपुषाश्रितं त्वत्पादाब्जं श्रितमनुजमंदार- मधुना ॥९७ ॥ त्वदीयो मे देहस्त्वमपि पितरौ भ्रातृसु- हृदस्त्वमेव ब्रह्मन्मेव सुतहितगृहक्षेत्रनिवहाः । त्वमेव प्राणो मे धनमपि ममत्वात्तव पदं न जाने मय्येव स्थित तरमुहुर्मीयमधुना ॥९८॥ नमस्ते तारायामृतजलधिधाम्ने धिमहसे नमस्ते ब्रह्माद्यैर्मुनिसुरवरैः क्लृप्तमनसे । नमस्ते यन्नारायणमुनि विलासाय भवते मनूनां कोटीनामचल- गणितानां च पतये ॥ ९९ ॥ नमस्ते देवैरप्यविदितम- हिम्नेऽतियशसे नमस्ते दिक्पालप्रकट मुकुटालंकृतपदे ।