पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे च्छदम् । मा शरीरं कलत्रं च त्यजेथाः सर्वपावनि ॥११॥ मा पुत्रान्मा सुहृद्वर्गान् मा पशुन्मा विभूषणम् । त्यजे. था मम देवस्य विष्णोर्वक्षःस्थलालये ॥१२॥ सत्वेन स स्यशौचाभ्यां तथा शीलादिभिर्गुणैः । त्यजंते ते नराः सद्यः संत्यक्ता ये त्वयामले ॥१३॥ त्वयावलोकिताः सद्यः शी- लाद्यैर खिलैर्गुणैः । कुलैश्वर्यैश्च युज्यंते पुरुषा निर्गुणा अ पि ॥ १४ ॥ स श्लाघ्यः स गुणी धन्यः स कुलीनः स बु. द्धिमान् । स शूरः स च विक्रांतो यस्त्वया देवि वीक्षितः ॥ १५ ॥ सद्यो वैगुण्यमायांति शीलाद्याः सकला गुणाः । पराङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ॥ १६ ॥ न ते वर्णयितुं शक्ता गुणान् जिह्वापि वेधसः । प्रसीद देवि पद्माक्षी नास्मांस्त्याक्षीः कदाचन ॥ १७ ॥ पुष्कर उवाच । एवं स्तुता ददौ श्रीश्च वरमिंद्राय चेप्सितम् । सुस्थिरत्वं च राज्यस्य संग्रामविजयादिकम् ॥ १८ ॥ स्व- स्तोत्रपाठश्रवणकर्तॄणां भुक्तिमुक्तिदम् । श्रीस्तोत्रं सततं तस्मात्पठेच शृणुयान्नरः ॥ १९ ॥ इति श्रीअग्निपुराणांत- र्गतं श्रीस्तोत्रं समाप्तम् ॥