पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९० बृहत्स्तोत्ररत्नाकरे भूयः ॥ १९ ॥ गभीरामुद्वेलां प्रथमरसकल्लोलमिलितां विगाहुं से नाभीविमलसरसीं गौर्मम मनाकू | पदं यावत्र्यस्य- त्यहह विनिमनैव सहसा नहि क्षेमं सूते गुरुमहिमभू- तेष्वविनयः ॥२०॥ कुचौ ते दुग्धांभोनिधिकुलशिखामं- डनमणे हरेते सौभाग्यं यदि सुरगिरेश्चित्रमिह किम् । त्रिलोकीलावण्याहरणनवलीलानिपुणयोर्ययोर्दत्ते करमखिलनाथो मधुरिपुः ॥२१॥ हरक्रोधत्रस्यन्मदननव- दुर्गद्वयतुलां दधत्कोकद्वंद्वद्युतिदमनदीक्षाधिगुरुताम् । त वैतद्वक्षोजद्वितयमरविंदाक्षमहिले मम स्वांतध्वांतं कि- मपि च नितांतं गमयतु ॥२२॥ अनेकब्रह्मांडस्थिति नियम- लीलाविलसिते दयापीयूषांभोनिधिसहजसंवासभवने । विधोश्चित्तायामे हृदयकमले ते तु कमले मनाङ् मन्त्रि- स्तारस्मृतिरपि च कोणे निवसतु ॥ २३ ॥ मृणालीनां लीला: सहजलवणिना लघयतां चतुर्णी सौभाग्यं तव जनाने दोष्णां वदतु कः | लुठंति स्वच्छंदं मरकतशिला- मांसलरुचः श्रुतीनां स्पर्धा ये दधत इव कंठे मधुरिपोः ॥२४॥ अलभ्यं सौरभ्यं कविकुलनमस्यारुचिरता तथापि त्वद्धस्ते निवसदरविंदं विकसितम् | कलापे काव्यानां प्रकृतिकमनीयस्तुतिविधौ गुणोत्कर्षांधानं प्रथितमुपमानं समजनि ॥ २५ ॥ अनल्पं जल्पंतु प्रतिहतधियः पल्ल- वतलां रसज्ञामज्ञानां क इव कमले मंथरयतु । तपंतु - 12