पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ बृहत्स्तोत्ररलाकरे हरिः । संहारं चाहं नियतं करोमि कुरुते तथा ॥ २८ ॥ वैष्णवाय विशुद्धाय विरागगुणशालिने । दद्यात्कवचम- व्यग्रमन्यथा नाशमाप्नुयात् ॥ २९ ॥ इति श्रीनारदपंच- रात्रे ज्ञानामृतसारे राधाकवचं समाप्तम् ॥ ८५. भगवत्यष्टकम् । श्रीगणेशाय नमः ॥ नमोस्तु ते सरस्वति त्रिशूलचक्र- धारिणी सितांबरावृते शुभे मृगेंद्रपीठसंस्थिते । सुवर्ण- बंधुराधरे सुझल्लरीशिरोरुहे सुवर्णपद्मभूषिते नमोस्तु ते महेश्वरि ॥ १ ॥ पितामहादिभिनुते स्वकांतिलुप्तचंद्रभे सरतमालया वृते भवाब्धिकष्टहारिणि । तमालहस्तमंडिते तमालभालशोभिते गिरामगोचरे इले नमोस्तु० ॥ २ ॥ स्वभक्तवत्सलेऽनघे सदाऽपवर्गभोगदे दरिद्रदुःखहारिणि त्रिलोकशंकरीश्वरि । भवानि भीमअंबिके प्रचंडतेज उ ज्वले भुजाकलापमंडिते नमोस्तु० ॥ ३ ॥ प्रपन्नभीतिना- शिके प्रसूनमाल्यकंधरे धियस्तमोनिवारिके विशुद्धबुद्धि- कारिके | सुरार्चितांत्रिपंकजे प्रचंडविक्रमेऽक्षरे विशाल- पद्मलोचने नमोस्तु० ॥४॥ हतस्त्वया स दैत्यधूम्रलोचनो यदा रणे तदा प्रसूनवृष्टयस्त्रिविष्टपे सुरैः कृताः । नि- रीक्ष्य तत्र ते प्रभामलज्जत प्रभाकरस्त्वये दयाकरे ध्रुवे नमोस्तु० ॥ ५ ॥ ननाद केसरी यदा चचाल मेदिनी तदा जगाम दैत्यनायकः स्वसेनया द्रुतं भिया । सको-