पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे ७०. सूर्याष्टकम् । श्रीगणेशाय नमः ॥ सांब उवाच | आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर | दिवाकर नमस्तुभ्यं प्रभाकर नमो- ऽस्तु ते ॥ १ ॥ सप्ताश्वरथमारूढं प्रचण्ड कश्यपात्मजम् । वेतपद्मधरं देवं तं सूर्य प्रणमाम्यहम् ॥ २ ॥ लोहितं रथमारूढं सर्वलोकपितामहम् | महापापहरं देवं तं सूर्य० ॥३॥ त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम् । म हापापहरं देवं तं सूर्य० ॥ ४ ॥ बृंहितं तेजःपुंजं च वायु- राकाशमेव च । प्रभुस्त्वं सर्वलोकानां तं सूर्य० ॥ ५ ॥ बंधूकपुष्पसंकाशं हारकुंडलभूषितम् । एकचक्रधरं देवं तं सूर्य० ॥ ६ ॥ तं सूर्य जगत्कर्तारं महातेजःप्रदीपनम् । महापापहरं देवं तं सूर्य० ॥ ७ ॥ तं सूर्य जगतां नाथं ज्ञानविज्ञानमोक्षदम् | महापापहरं देवं तं सूर्य० ॥ ८ ॥ सूर्याष्टकं पठेन्नित्यं ग्रहपीडाप्रणाशनम् । अपुत्रो लभते पुत्रं दरिद्रो धनवान्भवेत् ॥ ९ ॥ आमिषं मधुपानं च यः करोति रघेर्दिने । सप्तजन्म भवेद्रोगी जन्मजन्म दरिद्रता ॥१०॥ स्त्रीतैलमधुमांसानि यस्त्यजेत्तु रवेर्दिने । न व्याधिः शोकदारिद्र्यं सूर्यलोकं स गच्छति ॥ ११ ॥ इति श्रीसूर्याष्टकस्तोत्रं संपूर्णम् ॥ ७१. सूर्यार्यास्तोत्रम् | श्रीगणेशाय नमः ॥ शुकतुंडच्छवि सवितुश्चंडरुचेः पुं.