पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ बृहत्स्तोत्ररत्वाकरे . त्पठेत्स कौंतेय भक्तियुक्तेन चेतसा ॥ २५ ॥ अश्वमेधसह- खस्य वाजपेयशतस्य च । कन्याकोटिसहस्रस्य दत्तस्य फलमाप्नुयात् ॥ २६ ॥ इदमादित्यहृदयं योऽधीते सततं नरः । सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥ २७ ॥ नास्त्यादित्यसमो देवो नास्त्यादित्यसमा गतिः । प्रत्यक्षो भगवान्विष्णुर्येन विश्वं प्रतिष्ठितम् ॥ २८ ॥ नवतिर्यो. जनं लक्षं सहस्राणि शतानि च । यावद्धटीप्रमाणेन ताव चरति भास्करः ॥ २९ ॥ गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् । तत्फलं लभते विद्वान् शांतात्मा स्तौति यो रविम् ॥१३०॥ योऽधीते सूर्यहृदयं सकलं सफलं भवेत् । अष्टानां ब्राह्मणानां च लेखयित्वा समर्पयेत् ॥ ३१ ॥ ब्रह्मलोके ऋषीणां च जायते मानुषोऽपि वा । जातिस्म- त्वमाप्नोति शुद्धात्मा नात्र संशयः ॥ ३२ ॥ अजाय लोकत्रयपावनाय भूतात्मने गोपतये वृषाय | सूर्याय सर्वप्रलयांतकाय नमो महाकारुणिकोत्तमाय ॥ ३३ ॥ विवस्वते ज्ञानभृदंतरात्मने जगत्प्रदीपाय जगद्धितैषिणे । स्वयंभुवे दीप्तसहस्रचक्षुषे सुरोत्तमायामिततेजसे नमः ॥ ३४ ॥ सुरैरनेकैः परिसेविताय हिरण्यगर्भाय हिरण्म- याय महात्मने मोक्षपदाय नित्यं नमोस्तु ते वासरका- रणाय ||३५|| आदित्यश्चार्चितो देव आदित्यः परमं पदम् । आदित्यो मातृको भूत्वा आदित्यो वाङ्मयं जगत् ॥ ३६ ॥