पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे सूर्यमावाहयाम्यहम् ॥ ६ ॥ स्वागतो भव | सुप्रतिष्ठितो भव । संनिधो भव । संनिहितो भव । संमुखो भव । इति पंचमुद्राः । स्फुटयित्वाऽर्हयेत्सूर्य भुक्ति मुक्तिं लभे- नरः ॥ ७ ॥ ॐश्रीं विद्याकिलिकिलिकटकेटसर्वार्थसाध- नाय स्वाहा । ॐश्रीं ह्रीं हूं हंसः सूर्याय नमः स्वाहा । ॐ श्रीं ह्रां ह्रीं हूं हः सूर्यमूर्तये स्वाहा । ॐ श्रीं ह्रीं खं खः लोकाय सर्वमूर्तये स्वाहा । ॐ हूं मार्तंडाय स्वाहा | नमोऽस्तु सूर्याय सहस्रभानवे नमोस्तु वैश्वानर- जातवेदसे | त्वमेव चा प्रतिगृह्ण देव देवाधिदेवाय नमो नमस्ते ॥ ८ ॥ नमो भगवते तुभ्यं नमस्ते जात- वेदसे | दत्तमर्थ्य मया भानो त्वं गृहाण नमोस्तु ते ॥९॥ एहि सूर्य सहस्रांशो तेजोराशे जगत्पते । अनुकंपय मां देव गृहाणार्ध्यं नमोस्तु ते ॥ १० ॥ नमो भगवते तुभ्यं नमस्ते जातवेदसे । ममेदमर्थ्य गृह्ण त्वं देवदेव नमो- ऽस्तु ते ॥ ११ ॥ सर्वदेवाधिदेवाय आधिव्याधिविना- शिने । इदं गृहाण मे देव सर्वव्याधिर्विनश्यतु ॥ १२ ॥ नमः सूर्याय शांताय सर्वरोगविनाशिने । ममेप्सितं फलं दत्वा प्रसीद परमेश्वर ॥ १३ ॥ ॐनमो भगवते सूर्याय स्वाहा । ॐशिवाय स्वाहा । ॐसर्वात्मने सूर्याय नमः स्वाहा । ॐअक्षय्यतेजसे नमः स्वाहा । सर्वसंकट- दारित्र्यं शत्रुं नाशय नाशय । सर्वलोकेषु विश्वात्मन्सर्वा- १५२