पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गणेशस्तोत्राणि । तु गजाननं युगभुजं रक्तांगरागं विभुं तुर्ये तु द्विभुजं सितांगरुचिरं सर्वार्थदं सर्वदा ॥ ३ ॥ विनायकः शिखां पातु परमात्मा परात्परः । अतिसुंदरकायस्तु मस्तकं सुमहोत्कटः ॥ ४ ॥ ललाटं कश्यपः पातु भ्रूयुगं तु महो- दरः । नयने भालचंद्रस्तु गजास्यस्त्वोष्टपलवौ ॥ ५ ॥ जिह्वां पातु गणकीडचिबुकं गिरिजासुतः | वाचं विना- यकः पातु दंतान् रक्षतु दुर्मुखः ॥ ६ ॥ श्रवणौ पाशपा- णिस्तु नासिकां चिंतितार्थदः । गणेशस्तु मुख कंठं पातु देवो गणंजयः ॥ ७ ॥ स्कंधौ पातु गजस्कंध: स्तनौ विघ्न- विनाशनः । हृदयं गणनाथस्तु हेरंबो जठरं महानू ॥८॥ धराधरः पातु पार्श्वो पृष्ठं विघ्नहरः शुभः | लिंग गुह्यं सदा पातु वक्रतुंडो महाबलः ॥ ९ ॥ गणक्रीडो जानुजंघे ऊरू मंगलमूर्तिमान् | एकदंतो महाबुद्धिः पादौ गुल्फौ सदाऽवतु ॥ १० ॥ क्षिप्रप्रसादनो बाहू पाणी आशाप्रपू- रकः । (लीश्च नखान्पातु पद्महस्तोऽरिनाशनः ॥ ११ ॥ सर्वांगन मयूरेशो विश्वव्यापी सदाऽवतु | अनुक्तमपि यत्स्थानं धूम्रकेतुः सदाऽवतु ॥ १२ ॥ आमोदस्त्वतः पातु प्रमोदः पृष्ठतोऽवतु । प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः ॥ १३ ॥ दक्षिणस्यामुमापुत्रो नैर्ऋत्यां तु गणेश्वरः । प्रतीच्यां विघ्नहर्ताऽव्याद्वायव्यां गजकर्णकः ॥ १४ ॥ कौबेर्या निधिपः पायादीशान्यामीशनंदनः ।