पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरे | ४७. शिवस्तुतिः । श्रीगणेशाय नमः ॥ स्फुटं स्फटिकसप्रभं स्फटितहारकश्री- जटं शशांकदलशेखरं कपिलफुल्लनेत्रत्रयम् । तरक्षुवरकृत्ति- मद्भुजगभूषणं भूतिमत्कदा नु शितिकंठ ते वपुरवेक्षते वीक्षणम् ॥१॥ त्रिलोचन विलोचने लसति ते ललामा- यिते स्मरो नियमघस्मरो नियमिनामभूद्भस्मसात् । स्वभ क्तिलतया वशीकृतवतीसतीयं सती स्वभक्तवशतो भवा- नपि वशी प्रसीद प्रभो ॥ २ ॥ महेश महितोऽसि तत्पुरुष पूरुषाग्यो भवानघोररिपुघोर तेऽनवम वामदेवांजलिः । नमः सपदि जात ते त्वमिति पंचरूपोचित प्रपंचचयपंच- वृन्मम मनस्तमस्ताडय ॥ ३ ॥ रसाघनरसानलानिलवि- यद्विवस्वद्विधुप्रयष्टृषु निविष्टमित्यज भजामि मूर्त्यष्टकम् । प्रशांतमुत भीषणं भुवनमोहनं चेत्यहो वपूंषि गुणपूषिते- ऽहमहमात्मनोऽहंभिदे ॥ ४ ॥ विमुक्तिपरमाध्वनां तव पडध्वनामास्पदं पदं निगमवेदिनो जगति वामदेवादयः । कथंचिदुपशिक्षिता भगवतैव संविद्वते वयं तु विरलांतराः कथमुमेश तन्मन्महे ॥ ५ ॥ कठोरितकुठारया ललितशू- लया वाहया रणड्डमरुणा स्फुरद्धरिणया सखट्टांगया | चलाभिरचलाभिरण्यगणिताभिरुनृत्यश्चतुर्दश जगंति ते जयजयेत्ययुर्विस्मयम् ॥ ६ ॥ पुरा त्रिपुररंधनं विविध- दैत्यविध्वंसनं पराक्रमपरंपरा अपि परा न ते विस्मयः ।