पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बृहत्स्तोत्ररत्नाकरः।

मंगलम्।

श्रीगणेशाय नमः॥ श्रीगुरुभ्यो नमः॥ स जयति सिंधुर- वदनो देवो यत्पादपंकजस्मरणम् । वासरमणिरिव त. मसां राशीन्नाशयति विनानाम् ॥ १ ॥ सुमुखश्चैकदंतश्च कपिलो गजकर्णकः । लंबोदरश्च विकटो विघ्ननाशो गणा- धिपः ॥ २ ॥ धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजाननः । द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥ ३ ॥ विशा. रंभे विवाहे च प्रवेशे निर्गमे तथा । संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥ ४॥ शुक्लांबरधरं देवं शशिवर्ण चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतये ॥५॥ व्यासं वसिष्ठनतारं शक्तः पौत्रमकल्मषम् । पराशरात्मज वंदे शुकतातं तपोलिधिम् ॥ ६ ॥ व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे । नमो वै ब्रह्मनिधये वासिष्टाय नमो नमः ॥ ७ ॥ अचतुर्वदनो ब्रह्मा द्विबाहुरपरो हरिः । अ- भाललोचनः शंभुर्भगवान् बादरायणः॥ ८॥ इति ।