पृष्ठम्:Brihat Stotra Ratnakara 1912.djvu/१०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९६ बृहत्स्तोत्रस्नाकरे विरूपाक्ष विश्वेश्वर वृषभवाहन विषविभूषण विश्वतोमुख सर्वतो रक्ष रक्ष मां ज्वल ज्वल महामृत्युमपमृत्युभयं नाशय नाशय चोरभयमुत्सादयोत्सादय विषसर्पभयं शमय शमय चोरान्मारय मारय मम शत्रूनुच्चाटयोच्चाटय त्रिशूलेन विदारय विदारय कुठारेण भिंधि भिंधि खड्ङ्गेन छिंधि छिंधि खट्टांगेन विपोथय विपोथय मुसलेन नि- प्पेषय निष्पेषय बाणैः संताडय संताडय रक्षांसि भीषय भीषयाशेषभूतानि विद्वावय विद्वावय कूष्मांडवेताल- मारीचब्रह्मराक्षसगणान् संत्रालय संत्रासय ममाभयं कुरु कुरु चित्रस्तं मामाश्वासयाश्वासय नरकमहाभया- न्मामुद्धरोद्धर संजीवय संजीवय क्षुत्तृभ्यां मामाप्या- ययाप्यायय दुःखातुरं मामानंदयानंदय शिवकवचेन मामाच्छादयाच्छादय मृत्युंजय त्र्यंबक सदाशिव नमस्ते नमस्ते । ऋषभ उवाच । इत्येतत्कवचं शैवं वरदं व्याहृतं मया । सर्वबाधाप्रशमनं रहस्यं सर्वदेहिनाम् ॥ ३० ॥ यः सदा धारयेन्मर्त्यः शैवं कवचमुत्तमम् । न तस्य जायते कापि भयं शंभोरनुग्रहात् ॥३१॥ क्षीणा- युः प्राप्तमृत्युर्वा महारोगहतोऽपि वा । सद्यः सुखम्वा - मोति दीर्घमायुश्च विंदति ॥ ३२॥ सर्वदारिद्र्यशमनं सौमं - गल्यविवर्धनम् । यो धत्ते कवचं शैवं स देवैरपि पूज्यते ॥ ३३ ॥ महापातकसंघातैर्मुच्यते चोपपातकैः । देहांते मुक्तिमामोति शिववर्मानुभावतः ॥३४॥ त्वमपि श्रद्धया