पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

भगवदज्जुकंम् १७
शाण्डि -1 दाणिं पंडिदोसि ।
(ततः प्रविशति यमपुरुषः )
यम -- एष भोः
भूतानि यो हरति कर्महतानि लोके
यः प्राणिनां सुकृतदुष्कृतकर्मसाक्षी ।
उक्तोऽस्मि तेन शमनेन यमेन देहे
प्राणान्प्रजावधिविधौ विनियोजयेति ॥
तस्मात्
नानाराष्ट्रनदीवनाचलवतीं भूमिं समालोकय--
न्मेघैस्तोयभरावनम्रनिचयैः प्रच्छाद्यमानो भृशम् ।
तीत्र्वा चारणसिद्धकिन्नरयुत वातोद्धताभ्रत्रं नभः
सम्प्राप्तोऽस्मि यमेन यत्र विहितस्तर्कादिवाहं पुरम् ॥।
तत्ववनु खलु सां
(विलोक्य)
अय इय सा →
सपल्लवैस्तप्तसुवर्णवर्णेरशोकपुष्पस्तबकैर्मनोज्ञेः ॥
अन्तर्हिता भाति वराङ्गनैषा सन्ध्याभ्रजालैरिव चन्द्रलेखा ।
भवतु । अस्त्यस्या8 कर्मावशेषः । मुहूतं स्थित्वा प्राणान्हरामि ।
चेटी - 2 अज्जुए दस्सणीओो खु एसो असोअकिसळओो । णं गह. णामि ॥
गणि -– 3 मा मा । अहं एव्व गह. णामि ।
यम -- अय संदं शकालः यावत्सर्पत्वमुपगम्याशोकशाखायां स्थित्वा
अस्याः प्राणान्हरामि । अयमिदानीम् --
1 इदानों पपिडतोऽसि |
2 अज्जुके दर्शनीयः खल्वेषोऽशोककिसलयः । एनं गृहणामि ।
8 ममा । अहमेव गृह, णामि ।