पृष्ठम्:Bhagavadajjukam Bodhayana - V Prabhakara Sastri 1986.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

भगवदज्जुकम् ११
शाण्डि – l अप्पमाणं तुह एदं (व्वं) बहुअं मंतअंतस्स ॥
परि - सामैवम् ॥ → →
प्रमाणं कुरु यल्लोके प्रमाणीक्रियते बुधै* ।
नाप्रमाणां प्रमाणस्थाः करिष्यन्तीति निशचयः |
शाण्डि-2 ण हु दे पमाणं जाणामि बहुअं मंतअंतस्स ।
परि - एहि वत्स अधीष्व तावत् ।
शाण्डि - 3 एण दाव अज्झइस्सं !
परि - किमर्थम् ।
शाण्डि - 4 अज्झ अणस्स दाव अत्थं सोदुं इच्छामि ।
परि -- अधीताध्ययनैरपि कालान्तराद्विज्ञेया भवन्त्यध्ययनाथः ।
तस्मादधीष्व तावत् ।
शाणिड - 5 अधीते किं भविस्सदि |
परि -- श्रृणु-ज्ञानाद्भवति. विज्ञानं, विज्ञानात्संयय:, संयमात्तपः,
तपसो योगप्रवृत्ति8' योगप्रवृत्तेरतीतानागतवर्तमानतत्त्वदर्शनं
भवति, एतेभ्योऽष्टगुणमैश्वर्यं लभते ।
शाांण्ड -- 6 भो भअवं अप्पच्चक्खे जहाकामं मम बुद्धिं परिभविअ
भणासि । सक्कं पुण अदिट्ठो परगेहाणि पविसिदुं ।
1 अप्रमाणं तवेदं(वैवं ) बह मन्त्रयमाणस्य ।
2 न खलु ते प्रमाणं जानामि बहु मन्त्रयमाणस्य ।
3 न तावदद्ध्येष्यामि ।
4 अध्ययनस्य तावदर्थं श्रोतुमिच्छामि ।
5 अधीते कि भविष्यति |
6 भो भगवन्. अप्रत्यक्षे यथाकामं मम बुद्धि परिभाव्य भणसि i शक्यं
पुनरदृष्टः परगेहानि प्रवेष्टुम् ।