सामग्री पर जाएँ

पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/३६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२४ आश्वलायनगृह्यसूत्रभाष्यम् अज्ञानात्मथिते त्वग्नौ यदि पूर्वः प्रदृश्यते । मथितं च समारोप्य पूर्वे होमो विधीयते ।। यदेषाभि यज्ञगाथा गीयते- आधाने दक्षयज्ञे च साकमेधासु चेष्टिषु । सौत्रामण्यां पशौ चैव अग्नयः सकृदुद्धृताः ॥ खाते लूने च पिष्टे च सांनाय्ये मार्तिकेषु च । आलभ्य मन्त्रो वक्तव्यः संस्काराज्जायते हविः ॥ संस्काराज्जायते हविरिति ।। नमः शौनकाय नमः शौनकाय || ३० ॥