पृष्ठम्:Ashwalayana gruhya sutra bhashyam.pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ आश्वलायनगृह्यसूत्रभाष्यम् सर्वेषां प्रत्यृषि होमः प्राप्नोति । तत्रायं मन्त्र इत्युच्यते । कथं पुनर्ज्ञायते। तृतीयग्रहणात् । नेत्युच्यते तृतीयग्रहणस्येदं प्रयोजनम् । यदि नोच्येत' द्वितीयाधिकारे वर्तमाने अयमपि मन्त्रो द्वितीय एव स्यात् । तस्मात् तृती. यग्रहणं कर्तव्यम् ।। १४ ।। सौविष्टकृतं चतुर्थम् ॥ १५ ॥ सौविष्टकृतं चतुर्थमिति संख्यावचनम् । अस्य पुनः संख्यावचनस्य प्रयोजनमाज्यभागनिवृत्यर्थमुपदिशन्ति । बहुधा चात्र विप्रतिपत्तिः । आगमस्त्वेतत् ॥ १५ ॥ ब्राह्मणान् भोजयित्वा वेदसमाप्ति वाचयीत ॥ १६ ॥ तस्मादेव चरोर्ब्राह्मणान् भोजयति । कस्मात् । अधिकृतत्वात् । तस्य च ब्राह्मणार्थत्वात् ॥ १६ ।। अत ऊर्जमक्षारलवणाशी ब्रह्मचार्यधःशायो त्रिरात्रं द्वादशरात्रं संवत्सरं वा ॥ १७ ॥ अत ऊर्ध्वमेते नियमा भवन्ति । अक्षारलणाशित्वम् । ब्रह्मचारि- ग्रहण किमर्थम् । आचार्यनिवृत्त्यर्थम् । कियन्तं कालम् । त्रिरात्रं द्वादशरात्रं संवत्सरं वा । अत ऊर्ध्वमिति नारब्धव्यम् । कथम् । यत्तु यस्मादूर्ध्वमारभ्यते तत् तत्रैव भवति । इदं चारभ्य प्रयोजनार्थम् । किं प्रयोजनम् । अनुप्रवचनीयेन सह संबन्धकरणार्थम् । किंचान्यत् । 1 नोच्यते तत्---B. 2 मन्त्र इति तज्ज्ञापकम्-added in A, C, D. 33771-A, C, D. 4चरो:-A,C,D. 5 एतानि--added in D. 6 Omitted in A, C, D. 7 तत्र-A,C,D. 8 वदन्ति-- A, C, D.