पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • औशनसस्मृतिः *

[अष्टादशस्मृतिः स पण्डित ॥१२॥ रजकव्याधशैलूषवेणुचर्मोपजीविनाम् । यो भुङ्क्ते भुक्तमेतेषां प्राजापत्यं समाचरेत् ॥ अगम्यागमनं कृत्वा अभक्ष्यस्य च भक्षणम् । शुद्धिश्चान्द्रायणं कृत्वा अथर्वोक्त तथैव च ॥१४॥ अग्निहोत्रं त्यजेद्यस्तु स नरो वीरहा भवेत् । तस्य शुद्धिविधातव्या नान्या चान्द्रायणाहते ॥१॥ विवाहोत्सवयज्ञेषु अन्तरा मृतस्तके । सद्यः शुद्धिं विजानीयात्पूर्वसंकल्पितं च यत् ॥१६॥ देवद्रोण्यां विवाहे च पज्ञेषु प्रततेषु च । कल्पितं सिद्धमन्नाय माशौचं मृतस्तके ॥१७॥ इत्यापस्तम्बीये धर्मशास्त्रे दशमोऽध्यायः ॥१०॥ इत्यापस्तम्बस्मृति. समाता। ॐ तत्सद्ब्रह्मणे नमः। औशनसस्मृतिः। -::-::- . अतः परं प्रवक्ष्यामि जातिवृचिविधानकम् । अनुलोमविधानं च प्रतिलोमविधि तथा ॥१॥ सान्तरालकसंयुक्तं सर्व संक्षिप्य चोच्यते । नृपाद्ब्राह्मणकन्यायां विवाहेषु समन्वयात् ॥२॥ जातः सूतोन निर्दिष्टः प्रतिलोमविधिर्द्विजः । वेदानहस्तथा चैषां धर्माणामनुबोधकः ॥३॥ सूताद्विप्रप्रस्तायां सुतो वेणुक उच्यते । नृपाचामेव तस्यैव जातो यश्चर्मकारकः ॥४॥ ब्राह्मण्यां चत्रियाचौर्याद्रथकारः प्रकीर्तितः । वृत्तं च शूद्रवत्तस्य द्विजत्वं प्रतिषिध्यते ॥५॥ पानानां ये च वोढारस्तेषां च परिचारकाः। शूद्रवृत्या तु जीवन्ते न क्षानं धर्ममाचरेत् ॥६॥ ब्राह्मण्यां नैश्यसंसर्गाज्जातो मागध उच्यते । बन्दित्वं ब्राह्मणानां च क्षत्रियाणां विशेषतः ॥७॥ प्रशंसावृत्तिको जीवेद्वेश्यप्रेषकरस्तथा । बाह्मण्यां शूद्रसंसर्गाज्जातचाण्डाल उच्यते ॥८॥ सीसमाभरणं तेषां कार्णायसमथापि वा । बधी कण्ठे समोबध्य झल्लरी कचतोऽपि वा ॥६॥ मलापकर्षणं ग्रामे पूवार्धे परिशुद्धिकम् । नापराहणे प्रविष्टोऽपि बहिनामाच्च नैर्ऋते ॥१०॥ पिण्डीभूता भवन्त्यत्र नो चेद्वध्या विशेषतः । चाण्डालाद्वैश्यकन्यकायां जातः श्वपच उच्यते ॥११॥ श्वमांसभक्षणं तेषां श्वान एव तु तद्धनम् । नृपायां नैश्यसंसर्गादायोगव इति स्मृतः ॥१२॥ 'तन्तुवाया भवन्त्येते वसुकास्योपजीविनः । शालिकाः केचिदत्रैच जीवनं वस्त्रनिर्मितम् ॥१३॥ आयोगवम्य विप्रायां जातास्तारोपजीविनः । तस्यैव नृपकन्यायां जातः सूनिक उच्यते ॥१४॥ बनिकस्य नृपायां तु जात उद्धन्धकः स्मृतः । निर्णेजयेयुर्वस्त्राणि अस्पृश्याश्च भवन्त्युत ॥१५॥ 1 CC.O- Jangamwadi Math Collection. Digitized by eGangotri