पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशस्मृतयः]

  • लघ्वाश्वलायनस्मृतिः *

१०६ कम्बले वाऽ जिने पीठे कुशासनविनासने । न कुर्यादुपविष्टो नै ब्रह्मयज्ञं द्विजार्चनम् ।।८०॥ कुर्यात्तर्पणं श्राद्ध धृत्वा भालेऽनुलेपनम् । कदाचित्कुरुते मोहानरक प्रतिपद्यते ॥१॥ दक्षिणं चोपविश्योरु बामगुल्फोपरि न्यसेत् । वामोरौ दक्षिणं गुल्फं तच्चोपस्थमुदीरितम् ।।८२॥ प्राणानायम्य संकल्प्य कुशपाणिधरः करम् । कृत्वा तु सव्यमुत्तानं न्यसेदुपरि दक्षिणम् ॥३॥ सव्यस्य पाणेरङ्गुष्ठप्रदेशिन्योस्तु मध्यतः । दक्षिणस्याङ्गुलीय॑स्य चतस्रोऽङ्गुष्ठवर्जिताः ॥४॥ तथा सव्यकराङ्गुष्ठं दक्षिणाङ्गुष्ठवेष्टितम् । संबद्धमेवं कुर्वीत न्यसेइक्षिणसक्थिनि ||८|| प्राग द्वे पवित्रे तु धृत्वाऽन्तः संपुटौ करौ । संन्यसेद्दक्षिणे जानौ ब्रह्मयज्ञं समाचरेत् ॥८६॥ ॐ पूर्वा व्याहृतीस्तिस्रः स्वरतः सकृदुच्चरेत् । गायत्रीमुच्चरेत्सम्यक्पादमघमृचं क्रमात् ।।७।। ऋषिदैवतच्छन्दांसि प्रणवं ब्रह्मयज्ञके । मन्त्रादौ नोच्रेच्छाद्ध यागकालेऽपि चैव हि ॥८॥ अग्निमील इषे त्वादि वेदांश्चैव स्वशक्तिः । अध्यायमनुवाकं वा पठेत्सूक्तमृचं च वा ॥६॥ उपवीतं तथा यस्मिन्धत्ते कर्मणि वैदिके । ब्रह्मचारी गृहस्थश्च तद्वद्वासोऽपि धारयेत् ॥६०॥ सन्यांसे च स्थिते सूत्रे तत्सव्यं चाथ दक्षिणे । अपसव्यं भवेत्कण्ठे लम्बे सूत्रे निवीतकम् ॥६॥ न्यग्जानु दक्षिणं कृत्वा देवान्सतर्पयेत्पीन् । तद्वज्जानुद्वयं चाथ जानूवं दक्षिणं पितृन् ॥१२॥ सव्येन तर्पयेद्देवानृतींश्चैव.. निवीतिना । पितुंश्चैवापसव्येन विधिरेप उदाहृतः ।।६३।। तर्पयेद्विधिनाऽनेन देवांश्चैवाङगुलाग्रतः । ऋषीश्च वाममागेन पितृन्दक्षिणमागतः ॥१४॥ । एकैकं चाथ . द्वौ. द्वौ वै त्रीस्त्रीनेकैकमञ्जलीन् । अर्हन्त्येते. क्रमाश्चैव देवर्षिपितरस्त्रयः ॥६॥ प्रत्यञ्जलि समुच्चार्य मन्त्रं दद्यादयाञ्जलिम् । देवर्षिपितृनामानि प्रोक्ता मन्त्रा महर्षिभिः (६६।। पित्रादयस्त्रयश्चाऽऽदौ तिस्रो .मात्रादयस्ततः । सापत्नजननी मातामहादयस्त्रयस्तथा ।।६७॥ मातामह्यादयस्तिस्रः स्त्रीसुतभ्रातरस्तथा । पितृव्यो मातुलचैव दुहिता भगिनी तथा ॥६८|| दौहित्रो भागिनेयश्च पितुर्मातुश्च नै स्वसा । श्वशुरो गुरवश्वैव मित्रं चैवेति केचन ॥६६॥ पुत्रादयः सपत्नीकाः स्त्रियश्चैवाह केवलाः। तपणेऽभिहितास्तीर्थे गयायां च. महालये ॥१०॥ उक्त्वा पित्रादिसंबन्धं नामगोत्रं स्वधानमः । बङ्घचस्तु क्रमेणैव तर्पयामीति तर्पयेत् ॥१०१॥ संबन्धं नामगोत्रं च स्वधामुच्चारयेत्ततः । श्राद्धेऽपि विधिरेष स्यादाश्वलायनशाखिनाम् ॥१०॥ सव्यहस्तानुलग्नेन दक्षिणेन तु पाणिना । कुर्याद्ववच एवं तु देवर्षिपितृतर्पणम् ॥१०३॥ पहचस्तर्पणं कुर्याजले वाऽप्यथ बर्हिषि । तर्पयेदेवतादींश्च बर्हिष्येव तु याजुषः ॥१०४॥ स्मृत्युक्तविधिनाऽऽचम्य ब्रह्मयज्ञ समाचरेत् । संतर्य देवतादींश्च बहवचस्तत आचमेत् ॥१०॥ मध्याह्न ब्रह्मयज्ञो नै नानुबन्धवशाद्भवेत् । प्रातरौपासनादूचं कुर्यादस्तमयावधि ॥१०६॥ नैत्यकं तर्पणं कुर्याद्ब्रह्मयज्ञपुरः सरम् । तच्च देवतादीनां यदा वा स्नानपूर्वकम् ।।१०७॥ लानं वारुणिकं चैव क्वचित्कर्तुं न शक्यते । तत्राऽऽदौ ब्रह्मयज्ञार्थ मन्त्रस्नानं विधीयते ॥१०॥ पुण्यकोलनिमित्तं यतर्पणं क्रियते यदि । पितृणां केवलं वद्धि प्रवदन्ति महर्षयः ॥१६॥

। । CC.O- Jangamwadi Math Collection. Digitized by eGangotri