पृष्ठम्:Ashtadasha-smriti-sangrah.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ॐ तत्सद्ब्रह्मणे नमः। । लघुशातातपस्मृतिः , शातातपस्य महर्षेर्धर्मशास्त्र व्याख्यास्यामः ॥१॥ ब्राह्मणं हत्वा तस्य शिरः कपालमादाय तीर्थान्तरं संचरेदात्मनः पापकीर्तनं कुर्वन्द्वादशाब्दैर्विशुष्यति ॥२॥ अथाश्वमेधं पश्यति तदर्शनाच्छुद्धो भवति ।। सुरापस्य तप्तसुरापाने शुद्धिः स्यात् ॥४॥ ब्राह्मण सुवर्णहरणे राजसंनिधानात्सोमपानेन शुद्धिः स्यात् ॥५गुरुदारामिगामिनस्तप्तायसपिरिष्वञ्जनेनैव शुद्धिः ॥६॥ एषा- यो येन संबध्यते तस्य तदेव प्रायश्चित्त भवति ॥७॥ यावकीयं चतुर्थकानं संविशेत् ॥८॥ नकुलभोजने लशुनपलाण्डु- गृञ्जनभक्षणे तप्तकृच्छूम ॥६॥ उष्ट्रीखरीमानुषीक्षीरपाने पुनरुपनयनं कृच्छ्च ॥१०॥ शूद्रोच्छिष्ट- भोजने त्रिरात्रम् ॥११॥ सुराभाण्डोदकपाने छर्दनं घृतप्राशनमहोरात्रं च ॥१२॥ अनुदकमूत्रपुरी- पकरणेष्व काकस्पर्शने सचैलस्नानं; महाव्याहृतिमाचरेत् ॥१३॥ काकविष्ठोपघाते हव्यकव्या- भिगमने तदेव व्रतम् ॥१४॥ मृतवत्सायाः क्षीरप्राशने वृथामांसस्य भक्षणे प्राजापत्यम् ॥१५॥ अग्नेरुत्सादने मांसस्यर्थे काकवानमण्डूकमूषकदर्दुरनकुलादीन्हत्वा यानि चान्यानि भूतानि एषामनुक्तप्रायश्चित्तषु वर्ण कृत्वा प्राजापत्यं समाचरेत् ॥१६॥ अस्नाताशी अयाजी च विप्रकीर्णो भवेद्विजः । न तारयति दातारं नाऽऽत्मानन्त परिग्रहम् ||१७|| अस्नाताशी मनं भुङ्क्ते अयाजीपूयशोणितम् । अहू ताशी कृमि भुक्ते अदातो विषमश्नुते ॥१८ । पक्व वा यदि वा चाऽऽमं यस्य नाश्नाति नै द्विजः। भुक्त्वा दुरात्मनस्तस्य द्विजश्चाद्रायणं चरेत् ।१६।। अथोपपातकान्याहुः ।।२०। अग्युन्सोदी कन्यादृषी स्त्रीघाती (वृषणाभिघाती) गोध्नः शूद्रघाती कुमारघाती पतित व्यवहारी ये तेषां प्रायश्चित्तानि ॥२१॥ अग्न्युत्सादने कृच्छ्रम् ॥२२॥ कन्यादूपणेऽर्घपादम् ॥२३॥ स्त्रीघाती षण्मासान्कुच्छे ण ॥२४॥ वृषणाभिघाते प्राजापत्यम् ॥२५॥ गोघ्नस्त्रीन्मासान्प्राजापत्यं कुर्याद्गोमती च जपेद्विद्याम् ॥२६॥ शूद्रवधे तप्तकृच्छे ण मासं वर्तयेत् ।। कुमारघाती पयोभक्षो मासं गोष्ठ वसेत् ॥२८॥ पतितव्यवहारी तप्तकृच्छे ण शुध्यति ।.२६॥ आहस्त्यश्वदातरि वधे शूद्रवदकामकृते प्रायश्चित्तं समाचरेत् ॥३०॥ प्राणायामास्त्रयस्तस्य धु तं प्राश्य विशुध्यति ।३१॥ विवाहयेन सगोत्रां समानप्रवरां तथा । तस्याः संबन्धेऽप्य तिकृच्छं चरेद्विजः ॥३२॥ य उद्वहेत्सगोत्रां दुहितरं चैव मोतुलाम् । पितृभिः सह तुल्यः स्यात्स तु चान्द्रायणं चरेत् ।।३३।। नोद्वरेत्कपिलां कन्यां नाधिकाङ्गी न रोगिणीम् । नातिलोमिको , नालोमिकां न वाचाटां न पिङ्गलाम् ॥३४॥ नवृक्षनदीनाम्नी न'च भीषणनामिकाम ॥३५॥ यस्यास्तु न भवेद्माता न विज्ञायेत वा पिता । नोपयच्छेत तां कन्या-पुत्रिकाधर्मशङ्कया ॥३६॥ स CC.O- Jangamwadi Math Collection. Digitized by eGangotri