पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख् पायामद्वैतसिद्धां [प्रथमः , मात्रवृत्तित्वाद्वा, आत्मत्ववत् । निवर्त्यत्वं वा, नानादिभाव - निष्ठम्, अनाद्यभावविलक्षणनिष्ठं नेति वा, निवर्त्यमात्रवृत्तित्वात्, प्रागभावत्ववत् । अनादित्वं वा, नावरणनिष्ठम्, अनादिमात्र- वृत्तित्वात् प्रागभावत्ववत् । प्रमाणज्ञानं वा, अनाद्यभावान्या- नाद्यनिवर्तकम्, ज्ञानत्वात् भ्रमवदित्यादिना सत्प्रतिपक्षता; कृत्यभावमात्रेणाकृतस्य कृतित्रत् पूर्वप्रकाशाभावमात्रेणाप्रका- शितस्य प्रकाशोपपत्तेरप्रयोजकत्वं चेति – चेन्न; अनुकूलतर्का- भावेनाप्रयोजकत्वात् ; सिद्धान्तिहेतोश्चानुकूलतर्कसद्भावेन साध्य- व्याप्यत्वे निश्चित सत्प्रतिपक्षाप्रयोजकत्वादीनामनवकाशात् । अनादिभावत्वस्य निवर्त्यावृत्तित्वेऽप्यविद्याया भावविलक्षणाया निवर्त्यत्वोपपत्तेराद्यानुमानेनाविरोधश्च । द्वितीये त्वनाश्रितमात्र- वृत्तित्वमुपाधिः । तृतीयचतुर्थयोः सकलनिवर्त्यावृत्तित्वमुपाघिः ।. 420 - अज्ञानस्य भावविलक्षणत्वस्वीकारेऽप्याह – अभावविलक्षणत्वं वेति । निवर्त्यत्वोपपत्तिरिति । न चाभावविलक्षणस्य निवर्त्यत्वे सादित्वं प्रयोजकमिति ---वाच्यम्; अज्ञानतत्प्रयुक्तान्यतरस्त्वस्यैव ज्ञान- नाश्यताप्रयोजकत्वेनोक्तत्वात् । अनाश्रितमात्रेति । ध्वंसत्वादौ साध्यात्र्यापकत्वं नाशङ्कयम्; प्रागभावध्वंस रूपघटाद्यवृत्तित्वस्याखण्डो- पाधिरूपध्वंसत्वेऽभावात्, जन्यत्वे सति भावान्यत्वस्यापि मन्मते नव- यवृत्तित्वाच्च । सकलनिवर्त्येति । न चाभावविलक्षणस्य निवर्त्यत्वे सादित्वस्य प्रयोजकत्वादनादिभावत्वेन निश्चिते नाशसामग्रीमत्त्वस्या- भावेन नाशसामग्रीमत्त्वे साध्यवति उपाध्यभावेन साध्यव्यापकत्व- मिति – वाच्यम्; उक्तप्रयोजकत्वस्य प्रत्युक्तत्वात् । न चोपाध्यभाव- वत्त्वेन निश्चिते नाशसामग्रीमत्त्वे साध्य संशयेनोपाधौ साध्यव्यापकत्वं - 1साध्यव्यापकत्वं क. 2 निवृत्तित्वाच्च-ग. 3 तत्र साध्या - ग. -