सामग्री पर जाएँ

पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

418 सभ्याख्यायामद्वैतसिद्धौ [प्रथमः न वा द्वितीयादिप्रमायां साध्यसाधनवैकल्यम् । विस्तरेण चान्यत्र व्युत्पादितमिदमस्माभिः ॥ व्यावर्त्यमाह-न वेति । वैकल्यमिति | साध्यवैकल्यं नेत्यपि बोध्यम् । साध्यसाधन योरप्रकाश नाशोपधानं प्रविष्टम् । अन्यथोक्तपक्षतावच्छेद- कावच्छेदेन तदसिद्धयार्थान्तरापत्तेः । तथाचोक्तविशेषणाभाबे दोष इति भावः ॥ आश्रम स्वामिनस्तु जन्यसविकल्पकाजन्या घटचाक्षुषप्रमा स्ववि षयावरणस्वनिवत्येवस्त्वन्तरपूर्विकेत्येकम् । स्वविषयावरणत्वं स्वजनना- योग्यत्वम्, स्वनिवर्त्यत्वं स्वजन्यनाशप्रतियोगित्वम्, वस्त्वन्तरं स्वभि- न्नम् । तच्च स्वकालपूर्वकालवृत्तिस्वमादायार्थान्तरादुक्तम् । इच्छा प्रागभावादिनार्थान्तरात्स्वनिवर्त्येति । प्रतियोग्यन्या प्रागभावस्य निवृ- चिरिति मते इच्छाप्रागभावो न ज्ञाननिवर्त्यः; किंत्विच्छानिवर्त्यः । स्वप्रागभावमादायार्थान्तरात् स्वविषयावरणेति । स्वप्रागभावान्यस्वनि- वर्त्यस्वदेशगतवस्त्वन्तरपूर्व कमित्यपरं साध्यम् । स्वसमानाधिकरणप्राग- भावान्यार्थकमाथमिच्छा आन्तिप्रागभावादिनार्थान्तरस्य वारणाय । आत्म- त्वादिनार्थान्तराद्वितीयम् । स्वजनकाइष्टादिनार्थान्तरात्तृतीयं स्वसमाना- घिकरणयोग्यार्थकम् । अथवा एकमेव साध्यम् । स्वदेशगतत्वं स्वाश्रये वर्तमानत्वम् ; तेनोपादानप्रत्यक्षविषया संयोगादे: पक्षीकृतप्रमाजन्यत्वेन संयोगादिप्रागभावस्य स्वनिवर्त्यत्वादर्थान्तरस्य करण मित्याहुः ॥ तत्र " यद्यपि यथाश्रुते पटचाक्षुषोत्तरघटचाक्षुषप्रमायां सिद्ध- साधनम् ; भिन्नविषयका नुमित्यादिसामग्री कालीनघटचाक्षुषेच्छाजन्यत्वे

  • पटविषयकत्वेन पटसविकल्पका जन्यत्वेन पक्षत्व संभवात्,

योग्यात्मगुणाव्यवहितोत्तरान्यस्य सविकल्पाजन्यपदेनोक्त- 3 " तस्याः तथापि 2 तन्न--ग. 3 जन्यत्वेन-क ग. + पटाविषय-क. 1 वारण -ग.