पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धो -- प्रतिबन्धकादृष्टेनार्थान्तरवारणाय । न च-चरमसाक्षात्कारोत्पत्ति- प्रतिबन्धकादृष्टस्य तदनिवर्त्यत्वे मिथ्यात्वासिद्धिः, तन्निवर्त्यत्वे तद्वयुदसनमशक्यमिति - वाच्यम्; प्रतिबन्धकादृष्टे विद्यमाने न ज्ञानोत्पत्तिरिति प्रथमं तन्निवृत्तेः कारणात्मना स्थितस्य ज्ञाननिवर्त्यत्वाच्च मिथ्यात्वम् । न चैवमपि स्वनिवर्त्यत्वमव्या- हतम् ; स्वनिवर्त्यस्वरूपत्वे तात्पयोत् । अन्धकारेणार्थान्तर- वारणार्थमिदमिति केचित्, तन्न; स्वदेशगतेत्यनेनैव तद्वयुदा- सात् । यथा च वृत्तिप्रतिविम्बितचैतन्यस्य विषयावच्छिन्न- न तु केवलघटत्वादिति भावः । तात्पर्यादिति । ज्ञानप्रयुक्तो यदवस्थासामान्याभावस्तत्त्वं मिथ्यात्वमित्यायुक्तम्, प्रकृते तु स्वजन्य- . नाशप्रतियोगित्वरूपं स्वनाश्यत्वं प्रविष्टमिति भावः । तद्वयुदासादिति । स्वदेशगतत्वं स्वाश्रयतावच्छेदकान्यदेशानवच्छिन्नाश्रयताकत्वं वाच्यम्; अन्यथा स्वाश्रयगतत्वमात्रेण विषयगताज्ञातत्ववारणस्य वक्ष्यमाण- स्यासंभवात् । स्वाश्रयत्वगतत्वे' हि तादात्म्यसंबन्धेन निवेश्ये तादा- त्म्येनैव लोकतमसोर्वृत्त्यज्ञानयोश्चैकचिति सत्त्वात् । तथाच विषयगतो ज्ञातत्वाभावोऽपि वृत्तितादात्म्ये च विषयचिति तादात्म्येनैव संबद्धः । एवं च तमसो वृत्तितादात्म्यापन्नचित्तादात्म्येऽपि वृत्त्याश्रयतानवच्छे- दकदेशावच्छिन्नत्वेन व्यदासः । न हि तमो वृत्त्यवच्छेद कदेशेनैवाव- च्छिद्यते, मानाभावात् । अज्ञानं तु वृत्तिनाश्यत्वानुरोधात्तथाभूत- म्यैव वृत्तिनाश्यत्वात् । नच - - तथा भूतस्तमोऽवयवः संभवतीति बाच्यम्; तमसः सावयवत्वे मानाभावात् । स्वल्पदेशस्थालोकेन च बहुदेशस्थतमसो नावयवनाश:, किंतु तस्यैव नाशे सति आलोका. संयुक्तदेशे तमोन्तरोत्पत्तिः । दृष्टान्तस्तु स्वन्यूनदेशवृत्तितमोनाशका- 2 3 1 गतत्वं - ग. 410 2 निवेश्यं - ग. - 3 ॐ वृत्तितादात्म्यवयां--ग. [प्रथमः