पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैत सिद्धौ अथाज्ञानवादे अनुमानोपपत्तिः अनुमानमपि तत्र विवरणोक्तं प्रमाणम् । 'विवादपदं प्रमाणज्ञानम्, स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वनिवर्त्यस्व- देशगतवस्त्वन्तरपूर्वकम्, अप्रकाशितार्थप्रकाशकत्वात्, अन्ध- कारे प्रथमोत्पन्नप्रदीपप्रभाव ' दिति । अत्र प्रमाणपदं प्रमाणवृत्ते- रेव पक्षत्वेन सुखादिप्रमायां साक्षिचैतन्यरूपायामज्ञानानिवर्ति- कायां बाधवारणाय । धर्म्यशप्रमाणवृत्तेरिदमित्याकाराया अज्ञा- नानिवर्तिकायाः पक्षबहिर्भावाय विवादपदमिति विशेषणम् । विशेषाकारप्रमाणवृत्तिरिति फालतोऽर्थः । परोक्षप्रमाया अप्य सच्चावरणरूपप्रमातृगताज्ञान निवर्तकत्वान तदंशेऽपि बाघः । नन्विदमिति प्रमाणवृत्तेरज्ञानानिवर्तकत्वे अज्ञातज्ञापकत्वरूपप्रमा- त्वेन व्यवहारो न स्यात्, न इदमाकारभ्रमसंशयदर्शन तद्गोचराज्ञानकल्पने मानाभावेन तत्र सुखादिज्ञानवद्यथार्थत्व- [+] .406 तर्कैः सारस्वतै रनैश्चन्द्रिकाचन्द्रभूषणैः ।. दुरन्तध्वान्तनाशाया ज्ञानाध्यक्षोपपादनम् || इति गुरुचन्द्रिकागामज्ञान प्रत्यक्षोपपादनम् || [प्रथमः अथाज्ञानवादे अनुमानोपपत्तिः. विशेषाकारप्रमाणेति । रदंत्वान्यस्य प्रमेत्यर्थः । प्रमात्वं चेन्द्रियादिजन्यवृत्तिनिष्ठा जाति: । असत्वावरणेति । स्वविषयविषय- केत्यादिः । यथार्थत्वेति । व्यवहारकालाबाध्यविषयकत्वेत्यर्थः ।