पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वतसिद्धौ [ प्रथमः ज्ञानमागतमिति तनिषेधे न कुतो व्याघातः १ अत एव विशेषस्य स्वरूपतो ज्ञानेऽपि विशेषप्रकारकज्ञानाभावो न व्याहत इत्यपास्तम्, करतलामलकज्ञाने स्वविषयव्यावर्तकधर्मविषयत्वं प्रसिद्धमिह निषिध्यत इत्यपि न त्वदुक्तत्वस्यापि मदुक्ता- यावर्तकत्वेन सामान्यतो व्यावर्तकधर्मविषयत्वस्य निषेद्धुमश- क्यत्वात् । नन्ववच्छेदकतया विशेषज्ञाने जातेऽपि न व्याहतिः । तथा हि — न हि विशेषज्ञानाभावस्त्वदुक्तार्थविषयकज्ञानाभावो वात्र प्रतीयते; किंतु त्वदुक्तार्थविशेष्यकविशेषप्रकारकज्ञानाभावः, तत्र च त्वदुक्तार्थविशेष्यकविशेषप्रकारकज्ञानत्वेन ज्ञानेsपि तादृक्प्रकारकतद्विशेष्यकज्ञानाभावसंभवः; ज्ञाने विशेष्ये विशेषप्रकारकत्वप्रकारकत्वात् यत्रापि त्वदुक्त- विशेषं न जानामीत्यभिलापः, तत्राप्येवमेव व्याहत्यभावः कथं प्रतियोगि- अस्य ज्ञानस्य -. 394 - --- समूहालम्बन प्रत्येक पदार्थोपस्थित्या तथैवास्त्विति – वाच्यम्; अभाव- प्रत्यक्षस्य तद्रीत्या केनाप्यस्वीकारात् । न च – त्वदुक्तार्थप्रमात्वादिना स्मरणात्तेन रूपेणाभावप्रत्यक्षमिति – वाच्यम्; त्वदुक्तार्थत्वस्याननुभवे तद्विशिष्टप्रमात्वेन पूर्वानुभवायोगात् । अत एव त्वदुक्तार्थस्मृत्या त्वदु- क्तार्थप्रमात्वेनानुमानादेरप्यसंभवः; त्वदुक्तार्थे पूर्वाननुभूते तदसंभ - वात् । तज्जन्मान्तरीयसंस्कारादिकल्पनापेक्षयोक्तप्रत्यक्षस्य भावरूपा- ज्ञानविषयकत्वस्यैव युक्तत्वादिति भावः । अत एव - विशेषप्रकारक- ज्ञाने ज्ञेये विशेषप्रकारकज्ञानस्यावश्यकत्वादेव | स्वरूपतो विशेष्यतया | अशक्यत्वादिति । त्वदुक्तान्यव्यावर्तकनिवेशेऽपि त्वदुक्तं नीलघटादिकं न जानामीत्यत्र नीलत्वघटत्वादिरूपव्यावर्त कविषयकत्वेन विरोधात्, तदन्यत्वस्यापि निवेशे नीलघटत्वादिना निश्चयस्थलेऽपि नीलघटादि न जानामीति स्यात् इष्टापत्तावनुभवविरोधात् स्वपदार्थाननुगमेन स्वविषयव्यावर्तकधर्माज्ञान काले प्रतियोग्यप्रसिद्धेश्वाशक्यत्वमिति भावः । "