परिच्छेदः] - नचैवमतिलाघवात् क्लृप्तानामधिकरणानामेवाभावधीहेतुत्वमस्तु, किं विशेषाभावैरपीति – वाच्यम्; अस्माकमिष्टापत्तेः, घटाभावो नेत्यादावतिरिक्ताभावस्य त्वयाप्यनभ्युपगमेन भावस्याप्यमा- वत्वप्रकारकप्रमाहेतुत्वस्योभयवादिसिद्धत्वात् । यदपि कश्चि- दाह ---- प्रतियोगितावच्छेदकभेदस्याभावभेदनियामकत्वाद्विशेषा- भावान्यसामान्याभावसिद्धिः; अन्यथा अभावभेदासिद्धेः, प्रति- योगिभेदस्याभावभेदकत्वे एकघटप्रतियोगिकस्य प्रागभावादि- चतुष्टय स्याभेदप्रसङ्गात्, अवच्छेदकभेदात्तु तद्भेदे न कोsपि दोषः; क्वचित्तादात्म्यस्य क्वचित्संसर्गस्य क्वचित्पूर्वापरकालीन- तबटत्वादेश्य भेदादिति, तन्न ; संसर्गप्रतियोगिविशेषणसाधारण- स्यैकस्यावच्छेदकत्वस्य दुर्वचत्वात् तादात्म्यादेश्च प्रतियोगि- · तावच्छेदकत्वे मानाभावात् । भेदसिद्धिस्तु भाववदभावस्यापि विरुद्धधमाध्यासादेव । अवच्छेदकभेदस्याभावभेदनियामकत्वं अज्ञानप्रत्यक्षोपपत्तिः 391 क्षत्वेन कार्यत्वे गौरवमिति वाच्यम्; अनन्तसामान्याभाव कल्पनापेक्षया प्रतियोगितानिरूपकत्वान्यत्वनिवेशस्यैव लघुत्वात् व्यासज्यवृत्तिकत्व- स्यानुगतस्य दुर्वचत्वेन शक्तिविशेषस्यैवावच्छेदककोटौ निवेशेनोक्ता- न्यत्वानिवेशाच । संसर्गस्य —– संयोगादेः । तद्धटत्वेति । तद्व्यक्ति- , - त्वेत्यर्थः । तत्परिचायकमाह - पूर्वापरकालीनेति । साधारणस्येति । । - विशेषणस्य न्यूनाधिकावृत्तेर्नावच्छेदकत्वम् ; संसर्गस्य तु तादृशस्थापि तदिति वैलक्षण्यात्तयोर्भेद इति भावः । तादात्म्यादेवेति । तादात्म्यं भेदस्य तत्तद्व्यक्तित्वं ध्वंसादेः प्रतियोगितायां नावच्छेदकम् ; माना- भावात्, संयोगादिकमपि नावच्छेदकम्; संयोगेन घटो नास्तीत्यादौ संयोगाद्यभावभानस्योक्तत्वात् । एवं प्रतियोगिविशेषणमपि नावच्छेदकम् ;
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९१८
दिखावट