पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] 389 भेदात्, प्रतियोगिभेदं विना प्रागभावभेदायोगाच्च । नाप्युपा- दानत्वव्यवस्था तत्र मानम् ; तन्तुत्वादिनैव तत्सिद्धेः । अन्यथा प्रागभावस्य संबन्धिविशेषोऽपि कुतः सिद्धयेत् ? न च तदत्य- न्ताभाववतः कथं तदुपादानत्वम् ? संबन्धान्तरेण त्वयाप्यभ्यु- पगमात्समयावच्छेदतदनवच्छेदाभ्यां वैलक्षण्याभ्युपगमाचेत्यल- मतिविस्तरेण । एवं सामान्याभावोऽपि गौरवपराहत एव । तथाहि सामान्यावच्छिन्न प्रतियोगिताकत्वं अभावः तस्य च तत्तदधिकरणसंबन्धा इति त्रयं वा कल्प्यताम्, क्लप्ततत्तदधिकर णसंबन्धानामेकाधिकरणवृत्तित्वावच्छेदेन सिद्धानामभावानां सामान्यावच्छिन्नप्रतियोगिताकत्वं तस्य च व्यासज्यवृत्तित्व- मिति द्वयं वा कल्प्यताम् । तत्रोत्तरः पक्ष एव प्रेक्षावद्भ्यो 'स्याश्रये बहूनामुत्तररूपाणामुत्पत्तिस्थले तु तेजस्संयोगादीनामेव बहूनां हेतुत्वं कल्प्यत इति भावः । भेदं भेदसिद्धिम् । भेदायोगात् भेद- सिद्धययोगात् । वस्तुतः कारणाभेदेऽपि प्रमाणसिद्धे कार्यभेदे न क्षति- रिति बोध्यम् । वैलक्षण्येति । प्रतियोग्यधिकरणानधिकरणवृत्तित्वेत्यर्थः । त्रयमिति । तत्तदधिकरणसंबन्धसमुदायत्वेन संबन्धाना मेकत्वात्त्विं बोध्यम् । रोचत इति । यद्यपि समवायः प्रत्यधिकरणव्यक्ति विशिष्ट- प्रमानियामकत्वेन प्रत्यधिकरण व्यक्तिकं भिन्नः, तथापि पर्याप्तिः प्रत्ये- काधिकरणव्यक्तौ विशिष्टबुद्धयनियामकत्वेन न प्रत्येकाधिकरणं मिन्ना । तथाच प्रत्येकानतिरिक्त समुदायानुयोगिकपर्याप्तेः प्रत्येकानुयोगिकत्वेऽपि समुदितत्वावच्छिन्नाया एकस्या एव तस्याः स्वीकारात् सामान्याव- च्छिन्नप्रातियोगिताकत्वस्य सर्वविशेषाभावेष्वेकैव पर्याप्तिः, सामान्या- भावस्य तु स्वाधिकरणेषु प्रत्येकं नानाविशेषणता अतिरिक्ताः कल्प्याः । स्वरूपसंबन्धस्य निरस्तत्वादित्यनत्यपक्ष एव रोचत इति भावः ॥ अज्ञानप्रत्यक्षोपपत्तिः