पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/९१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अंज्ञान प्रत्यक्षोपपत्तिः

387 रूपसामान्याभावबुद्ध्यनुदयात् एैकाधिकरण्यावच्छेदेनाप्यभावा विशेषणीयाः; तथाचातिगौरवम् । अपि च व्यासज्यवृत्तिधर्म- ग्रहे यावदाश्रयग्रहस्तद्भेदग्रहथ हेतुः; अगृहीतेषु भिनंतयां वागृहीतेषु वस्त्रादिषु द्वित्वादिबुद्ध्यनुदयात् । तथाच यावद- भावतद्भेदाग्रहे प्रथमत एव नीरूप इति धीर्न स्थात् ; व्यासज्य- वृत्तिसामान्यधर्मावच्छिन्न प्रतियोगिताकत्वस्याग्रहणात् । अतः सामान्याभावस्य प्रामाणिकत्वात्कथं तत्पराहतिरिति — चेत्, अत्र ब्रूमः – एवं तर्हि सामान्यप्रकारेण विशेषाभावाप्रतीतेर्ज्ञान- विशेषप्रागभावो न जानामीति धियो ज्ञानत्वावच्छिन्नप्रति- योगिताको न विषय इति सिद्धं नः समीहितम् । न हि प्रागभावोऽपि कश्चित्सामान्याभावोऽस्ति; येन तत्प्रतियोगिता . सामान्यधर्मेणावच्छिद्येत; विशेषाभावप्रतियोगिता तु तत्तद्धटत्वा- दिना विशेषेणावच्छिद्यते । न च तेन तेन रूपेण भविष्यबटादि ज्ञातुं शक्यम् ; तज्जन्मानन्तरं तु तत्तद्रूपेण तज्ज्ञान संभवेऽपि न प्रागभावधी: प्रत्यक्षा स्यात् तदानीं प्रागभावासच्वात्, प्रत्यक्षस्य विषयजन्यत्वात् । सामान्यप्रकारकज्ञानं च न विशेषा- भावज्ञाने हेतुरित्युक्तम् ; प्रतियोगितावच्छेदकप्रकारकप्रतियोगि ज्ञानस्याभावत्व प्रकारका भावज्ञाने हेतुत्वात् तस्यानुमानगम्य- कावृत्तेः समुदायवृत्तित्वासंभवात्समवायव द्वहुप्वे कस्य बाच नानापर्याप्तिसंबन्धा वाच्या इत्यर्थः । समवायस्य कत्वेन नानात्वं पर्याप्तेस्तु तदभावेनैकत्वमित्याशयेन त्व सामान्याभावं स्खण्डयिष्यति । अवच्छेदेन - विशिष्टत्वन । विशेषणीया इति । अन्यथा पृथिव्यां सर्वं नीलरूपमितिवत् पृथिव्यां रूपं नास्तीत्यपि स्यादिति शेषः । इदंत्वादिनाभावप्रत्यक्षवारणायाह - अभावत्वप्रका- रकेति । अभावज्ञाने अभावप्रत्यक्षे | हेतुत्वादिति । अन्यथा नेत्येवा-

, संबन्धत्वासंभ- प्रत्येकानुयोगि- 25*