पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अविद्यालक्षणोपपत्तिः 365 दानकं तत्तदनुविद्धतयैव प्रतीयत इति व्याप्तयासिद्धेः । न हि घटोपादानकं रूपं घट इति प्रतीयते ; प्रकृतिज्यणुकाद्यनुविद्ध- तया प्रतीतः परैरप्यनभ्युपगमात्, केनचिद्धर्मेण तदनुवेधस्तु प्रकृतेऽपीष्ट एव । न च यावन्ति ज्ञानानि तावन्त्यज्ञानानीति पक्षे भ्रमापूर्वकप्रमानिवर्त्येऽज्ञानेऽव्याप्ति :; भ्रमोपादानतायोग्य- त्वस्य विवक्षितत्वात्, सहकारिवैकल्यात्कार्यानुदयेऽपि योग्यता- लीकत्वेन भ्रमोपादानत्वासंभवः । यत्र विषये प्रत्यक्षप्रमा जनिष्यते, तत्रापि भ्रमोपादानत्वेन सिद्धस्य प्रतियोगिज्ञानसापेक्षघकित्वकल्पने गौरवान्नाभावत्वम् । भावरूपस्यापि तस्य प्रमाप्रांगभावत्वमविरुद्धम् ; जन्यभावमात्रस्य स्वध्वंसप्रागभावत्वादित्यपि बोध्यम् । यत्तूत्पन्नपुनरुत्प सिवारणाय प्रागभावस्याभावरूपस्य कल्पनमिति ततुच्छम्; अभावरू- पत्वे मानभावात्, गौरवस्योक्तत्वात् सामग्रयुत्तरक्षणत्वं कार्येण व्याप्यं न तु तदुत्पत्त्येति पुनरुत्पत्त्यापादनासंभवाच्च || - एव प्रतीयते--प्रतीयत एव । ननु – 'शुक्को घट: ' 'मृद्धट' इत्यादिशुक्लत्वमृत्त्वादिना रूपप्रकृत्यादितादात्म्यं घटे प्रतीयत एवेत्यत आह - केनेति । यथा शुक्लत्वादिना रूपाद्यनुवेधस्तथा जडत्वादिमाs- ज्ञानानुवेषः । अज्ञानत्वेनाननुवधस्तु भ्रमस्य भ्रमत्वाज्ञानात् बाघकाले तु नेदं रूप्यं रूप्यतया यदभात्तदज्ञानमित्यनुभूयत एव । किंच विशेषदर्शिनामज्ञानं सर्वकार्यमिति धीरस्त्येव ; अत एव -- यत्तु दृष्टिपथः प्राप्तं तन्मायैवास्तु तुच्छकम् । .9 2 इति भाष्योदाहृतं साङ्ख्यवाक्यम् | अविशेषदर्शिनां तु मृद्धट इत्याद धीर्नास्तीति भावः। योग्यतेति । कारणतावच्छेद की भूताज्ञानत्वजातीत्यर्थः । । व्याप्यत्वं-ग. 2 इत्यपि -ग. ,