पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ अथाज्ञानवादेऽविद्यालक्षणोपपत्तिः, -- अथ - केयमविद्या ? न तावदनादिभावरूपत्वे सति ज्ञाननिवर्त्या सा; सादिशुक्त्याद्यवच्छिन्नचैतन्यावारकाज्ञानेs- व्याप्तेः, तस्यानादित्वाभावात् । अभावोपादानाज्ञाने च भाव- त्वाभावात्तत्राव्याप्तिः, अभावस्य भावोपादानकत्वे असत्य- स्यापि सत्योपादानकत्वं स्यात्, अज्ञानानुपादानकत्वे तस्य ज्ञानान्निवृत्तिर्न स्यादिति ; अत्र ब्रूमः, रूप्योपादानाज्ञानमय- नादिचैतन्याश्रितत्वादनाद्येव, उदीच्यं शुक्त्यादिकं तु तदवच्छे- दकमिति न तत्राव्याप्तिः | भावत्वं चात्राभावविलक्षणत्वमात्रं विवक्षितम्, अतः आरोपिताभावापादानाज्ञानेऽप्यभावविलक्षण- त्वस्वीकाराभाव्याप्तिः । न च – सजातीयोपादानकत्वनियमः, अन्यथा असत्यस्यापि सत्यमुपादानं स्यादिति वाच्यम्; सर्वथा साजात्ये सर्वथा वैजात्ये वोपादानोपादेयभावादर्शनेन तथा साजात्यस्य वैजात्यस्य वा आपादयितुमशक्यत्वात् । न हि कार्याकारकारणाकारतोऽप्यभेदे कार्यकारणभावः; सत्यस्य त्वसत्योपादानत्वे सत्यस्य निवृत्त्यसंभवेन तदुपादेयस्यासत्य- स्यापि निवृत्तिर्न स्यात्, उपादाननिवृत्तिमन्तरेणोपादेयानिवृत्तेः, अतो न सत्यमसत्यस्योपादानम् ; सत्यस्यापरिणामित्वाच्च । विव- अथाज्ञानवादे विद्यालक्षणोपपत्तिः. 358 [ प्रथमः सत्योपादानकत्वं स्यादिति । तथाचेति शेषः । तदव- च्छेदकमिति । अनाद्यत्यन्ताभावस्य तार्किकादिमते यथा तत्तत्काला- दिरवच्छेदक इति शेषः । न सत्यमिति । निमित्तनाशादिनैवा सत्यस्य नाश इति तु न युक्तम् ; । दृश्यमात्रे ज्ञाननिवर्त्यत्वस्य श्रुत्यनुभवादि- सिद्धत्वनोपादानाज्ञानस्य नाशावश्यकत्वात् । सत्यस्यापरिणामित्वा-