पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभ्याख्यायामद्वैतसिद्धौ [प्रथमः , - संसारोपलब्धिर्न स्यात् ; जीवस्यैकत्वात् अन्त्ये सम्प्रदायासं- भवेन तत्त्वज्ञानासंभव इति – चेन्न; न ह्यसाम्प्रदायिकत्व- मुत्पत्तिविरोधि; अपूर्वजातीयानुत्पत्तिप्रसङ्गात् । किंतु कारणा- सवम्, तभेदानीम्; उपदेष्टत्वादिकारणस्य कल्पनासुदृढस्य सच्चात् । जीवैक्यस्य प्रमाणसिद्धत्वे संसारोपलम्भ एवातः पूर्व तत्त्वज्ञानानुत्पत्तौ प्रमाणम् | न च – तत्त्ववित्त्वेन श्रुत्यादि- सिद्धानां शुक्रवामदेवादीनां मुक्तिर्माभूत् मम तु भविष्यतीति कथं श्रद्दध्यादिति – वाच्यम्; शास्त्रप्रामाण्यदार्व्यादिति गृहाण | अन्यथा तेषां महानुभावानां मुक्तत्वेऽपि मम भविष्यति न वेति शङ्कापिशाच्या प्रवृत्तिप्रतिवन्धापत्तेः । ननु – तर्हि श्रुतिप्रामा- ण्यबलादेव तत्सिद्धो'जीवभेदः; पूर्वमपि केषांचिन्मोक्षश्चाभ्युपे -- , - 356 कत्वनिश्चयात् । सम्प्रदायेति । अनादितत्त्वज्ञानप्रवाहेत्यर्थः । अपूर्व- जातीयेति । पूर्वानुपलब्धचैत्रत्वादिजातीयेत्यर्थः || - ननु – कर्मणां तत्तज्जातीयापूर्वीणां तत्फलानां च प्रवाहरूपेणा- नादित्वान्न पूर्वानुपलब्धजातीयमुत्पद्यत इति चेत्, आन्तेनोपदिष्टोऽसि न हि यद्यज्जातीयमिदानीं जायते तज्जातीयोपधायक कर्मपूर्वमपि केनचित्तादृशं कर्मानुष्ठितमित्यत्र मानमस्ति, येन कर्मादीनामुक्तानादि- स्वनियम: स्यात् । आस्तां वा तथा, तथापि चैत्रत्वादिकं न विहितक्रिया- कार्यतावच्छेदकम् ; चैत्रशरीरकामोऽमुकं कुर्यादित्यादिविध्यभावात्, किंतु ब्राह्मणादिदेहजनककर्मव्याप्यदृष्टकारणकार्यतावच्छेदकम् । न च दृष्ट कारण प्रयोज्यजातीयानामप्युक्तानादित्वनियमः; मानाभावात् । आस्तां वा सोऽपि, तथापि तत्त्वज्ञानस्य तादृशानादित्वमिष्टमेव ; अधीतवाक्यात्तत्प्रवाहानादित्वसंभवात् ! असंभावनादिशून्यज्ञानत्वम- 1 सिद्धो. " तज्जातीयोपधायकं -ग.