पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

354 सव्याख्यायामद्वैत सिद्धो [प्रथमः - हृतवाक्याविरोधात् । अन्यथा तवापि मते तस्ववित्वेन प्रमित एवाचार्यत्वेनानुसरणीय इति प्रथमत एव तत्त्वज्ञाने तत्काल- मोक्षापत्युपदेशवैयर्थ्यादिकं च स्यात् । एतेन – 'स्वाध्याय- प्रवचनाभ्यां न प्रमदितव्य 'मित्यादिविधिरपि भावितत्त्वज्ञानि- कल्पकचेतनं प्रत्येव, नच तस्य शिष्य: स्वाज्ञानकल्पित इति ज्ञानत स्तन्मोक्षार्थं प्रवचने प्रवृत्तिर्युक्ता; नच स्वप्नवत् कल्पि- तत्वाज्ञानात्प्रवृत्तिः ; तत्वविदस्तदज्ञानानुपपत्तेरिति-निरस्तम् ; स्वमगुरुवत् कल्पितत्वेन गुरोरपर्यनुयोज्यत्वात् । न च तव ज्ञानहेतुत्वेन वेदस्य मीमांस्यत्ववत् गुरोरपि पर्यनुयोज्यत्वमिति- बाच्यम्; तर्केण वेद इव तत्तद्रूपकल्पनया गुरावपि तत्परि- हारात् । न च कथास्वपि सदुत्तरापरिस्फूर्तावहं त्वत्कल्पितो न पर्यनुयोज्य इत्युत्तरं स्यादिति वाच्यम्; कथायाः कल्पि- तत्वानिश्चयकालीनत्वेन समयबन्धविशेषनिबन्धनत्वेन च ताह- गुरुः कल्प्यः; तत्राह - अन्यथा तवापीति । तथाच भेदवादिमते स्वसिद्धान्त श्रवणाद्यथा नाद्वैते तत्संभावना, तथैवाद्वैतमतेsपि भेदे न तत्संभावना | यथा च तव भेदानिर्णयेऽपि मेदनिर्णयवानिति कल्पना, तथैवाद्वैतानिर्णयेऽपि ममाद्वैतनिर्णयवानिति कल्पना । अन्यथा तत्त्व- निर्णयात्पूर्व तत्र मोक्षसाधनत्वेन ज्ञानासंभवादिच्छापि न स्यात् । यथा तवेदानीं भेदानिश्चयसत्त्वेऽपि विचारादियुक्तशास्त्रजन्यं भेदज्ञानमेब मोक्षहेतुः, तथा ममापि तादृशमद्वैतज्ञानमेव तथेति भावः । भावि- तन्त्रज्ञानिकल्पकचेतनमिति । सर्वमोक्षकारणतत्त्वज्ञानयुक्तो भावी शिष्यशास्त्रादिकल्पकश्चेतनः तमित्यर्थः । प्रवचने-अध्यापने । समयबन्धेति । नियमबन्धेत्यर्थः । तादृशतादृशाक्षेपपर्यनुयोगघटित- 2 भाविशिष्य - ग. 1 जानत.