पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [प्रथमः ज्ञानस्याप्याधिष्ठानज्ञानत्वेनैव प्रपञ्चं प्रति निवर्तकत्वम्, प्रका रान्तरासंभवात् । तथाहि — प्रतियोगित्वं तावत्र निवर्तकताव- च्छेदकम् ; प्रपञ्चस्य भावरूपत्वात्, ज्ञानस्य प्रागभावनिवृत्ति - रूपत्वेन प्रतियोगित्वेन प्रागभावनिवर्तकत्वासिद्धेश्च । नाप्युत्तर गुणत्वम्; आकाशादेरात्मविशेषगुणत्वाभावात्, इच्छादेरपि प्रपञ्चनिवर्तकत्वापाताच्च । नापि फलत्वम् संस्कारस्य स्मरण- जनकत्ववदाकाशादेरात्मज्ञानजनकत्वाभावात्, संस्कारस्य स्मृ त्यनाश्यत्वेनोदाहरणासिद्धेश्च | विषयदोषदर्शनस्य तु रागादि निवर्तकत्वं रागादिकारणीभूतबलवदनिष्टाननुबन्धीष्टसाधनत्व- भ्रमरूपतत्कारणनिवर्तकत्वेनेति न प्रकृतोदाहरणादतिरिच्यते, शुक्तिरूप्यतुल्यत्वात् । गरुडध्यानं तु न प्रत्युदाहरणम् ; ध्यानस्य रागादेरिव ज्ञानत्वानभ्युपगमात्, ज्ञानस्येच्छानधीनत्वेन तद -, धीन ध्यानापेक्षया' वैलक्षण्यात् । स्पष्टं चैतदाकरे | ज्ञानत्वेऽपि तस्य सेतुदर्शनपक्षानातिरेकः; शास्त्रविहितत्वाविशेषात् । केवलं सेत्वादिदर्शनवद्विहितक्रियात्वमवशिष्यते । तच्च न संभवति ; ज्ञानस्य कर्तुमकर्तुमशक्यत्वेन विधेयत्वायोगात् । विस्तरेण च ज्ञाने विधिराकरेषु निराकृतः, निराकरिष्यते चेहापि । सेतु- रूपत्वादिति । आकाशादेरराधिकवृत्तित्वादिना न ज्ञानप्रागभावत्वमित्यपि बोध्यम् । ननु दृष्टिसृष्टिपक्षे आकाशादेर्मनःपरिणामत्वात्तादात्म्येन पृथि- व्याद्यसंबन्धत्वेनानषिकवृत्तित्वात् ज्ञानप्रागभावत्वमस्तु; भावस्यापि तस्य स्वध्वंस रूपज्ञानप्रागभावत्वे बाघकाभावात्तत्राह – ज्ञानस्येति । असिद्धे- रिति । ज्ञानस्य स्वनिवर्तकत्वासंभवोऽपि बोध्यः । जनकत्वाभावादिति । मन आदेर्जनकत्वेऽप्य संस्कारत्वात् । न हि जनकमात्रं फलनाश्यमिति शेषः । दोषदर्शनस्य बहुविध दुःखप्रयोजकत्वादिदर्शनस्य | आकरेषु 1 ज्ञानापेक्षया. 318