पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

298 सव्याख्यायामद्वैत सिद्धौ [प्रथमः न भेदवानिति पश्चादद्वितीयत्वं परमार्थस्य प्रतिपादितम् | अविनाशिनः परमार्थशब्दार्थत्वमुक्तवाक्यं बोधयतीति त्वयुक्तम् परमार्थपदस्य पूर्व- त्वेनोद्देश्य बोधकत्वात्पूर्ववाक्यानां तथासत्यननुकूलत्वाच्च, अविनाशि- त्वेन ज्ञाते परमार्थपदाप्रयोगाच्च । अविनाशित्वेन परमार्थपदार्थता- स्वीकारेऽपि दृश्यत्वेनैव तत्त्वधीनिवर्त्यत्वात्, 'विद्वान्नामरूपाद्विमुक्तः ' इति श्रुतेश्च शुद्धचिदेवानाशिनीति सैव तथा । एवं च ' वादो ज्ञात' इत्यत्र नञ्कल्पने मानाभावाद्विरोधाचास्मदुक्तार्थ एव श्रेयान् । 'सोऽयं सत्य' इत्यादिवाक्यं तु न श्रुतिः ; अप्रसिद्धत्वात्, प्रसिद्धत्वेऽपि द्वैतं न विद्यत इति तोर्विनिवर्तत इत्यन्तमज्ञानिनां मतमित्यर्थो बोध्यः । किंच-- तन्वां' स्वस्वामिसंबन्धः प्रपञ्चोऽस्य शरीरिणः । वस्तुतोऽसौ न चैवास्ति परमस्य वशे यतः । तत्त्वादिकस्तथाप्येष ह्यभिमानात्प्रदृश्यते || अतः स विद्यत इत्यङ्गीकारो भवेद्यदि । तथापि भगवद्ध्यानात्स निवर्तेदसंशयः || इत्यादिनोक्तश्लोकयोस्त्वदाचार्येर्माण्डूक्यमाप्ये व्याख्यातत्वात् अह- मिदं ममेदमित्यादिस्वस्वामिभावरूपः प्रपञ्चो जीवस्य यद्यपि विद्येत, तथापि भगवत्प्रसादान्निवर्तेत । अद्वैतं महाद्भद्वितीयेन प्रकारेणाज्ञातं. परब्रह्मादि द्वैतं द्विधा ज्ञातमज्ञैः, तत्र हेतुः परमार्थतः परमेश्वरान्माया- मात्रं तदिच्छाकृतं तदिच्छयैव निवर्तत इति । अतो विकल्पः शरीरादिसंबन्धः केनचिदज्ञानादिना कारणेन कल्पितोऽप्युपेदशान्नि- वर्तते । अतो ब्रह्मणि ज्ञाते सति द्वैतमन्यथाज्ञातं निवर्तत इत्ययं वादः सतामिति भाष्ये त्वदीयानां व्याख्यानाच्च देहादिसंबन्ध आत्म- 1 तत्त्वं - ग. 2 ज्ञानं -ग.