पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] एकमेवेत्यादिश्रुत्यर्थविचारः सूत्रेऽपि सिद्धान्ताविशेषापत्तेः । 'मायामात्रं तु कात्सर्येनानभिव्यक्त- स्वरूपत्वा ' दिति शारीरकसूत्रेऽपि मायापदमुक्तार्थकम्; अन्यथोक्त- हेत्वसङ्गतेः । 'विष्णोरिच्छावशत्वातु मायामात्रमिति स्मृतावपि मायापदमनिर्वाच्योपादानकत्वेनानिर्वाच्याभिन्नपरम् । अनिर्वाच्यस्या- चेतनस्याप्युपादानत्वमुपपद्यते, ईश्वराधिष्ठानादित्याशयेन विष्णोरि- त्यादिहेतूक्तिः । अन्यथा मायाशब्दस्य त्वन्मते ईशेच्छाया एवार्थत्वेन (तदर्थत्वेन) तदात्मकत्वस्थ प्रपञ्चे बाधात्तज्जन्ये लक्षणापत्तेः । इच्छा- मात्रमित्यादावप्युक्त एव मार्गः । वस्तुतस्तु – 'विभूतिं प्रसवं त्वन्ये मन्यन्ते सृष्टिचिन्तकाः । स्वममायास्वरूपेति सृष्टिरन्यैर्विकल्पिता || इच्छामात्रं प्रभोः सृष्टिरिति सृष्टौ विनिश्चिताः । कालात्प्रसूतिं भूतानां मन्यन्ते कालचिन्तकाः || भोगार्थ सृष्टिरित्यन्ये क्रीडाथमिति चापरे । देवस्यैष स्वभावो ऽयमाप्तकामस्य का स्पृहा' || ,

295 1 प्रभावो-ग. इति श्लोकानां विभूतिं स्वीयैश्वर्यख्यापनम् | स्वप्नमायास्वरूपेति । स्वमस्य जाग्रहृष्टभ्रमरूपस्य मायाया अपि द्रव्यविशेषादी भ्रमविशेष- रूपाया: स्वरूपा अनित्यत्वयुक्तिविरुद्धत्वादिना सदृशी, न तु मिथ्या, इच्छामात्रं ईश्वरीयसत्यसङ्कल्पमात्रम्, न तु सङ्कल्पातिरिक्तंति केचित् । सृष्टिचिन्तकाः सृष्टौ विनिश्चिता इत्माभ्यां नैते तत्त्वचिन्तका इति परमतं सूचितम् । तेषामेव प्रयोजनं सृष्टेराह – भोगार्थ क्रीडार्थं वेति । स्वमतमाह -- देवस्येत्यादि । सृष्टिर्देवस्यात्मनः स्वभावः स्वाभाविका विद्यातत्परिणाम इति यावत् | स्वरूपतोऽनादित्वं प्रवाहरूपेणानादि- अमजनकत्वं चाविद्यादोषस्य स्वाभाविकत्वम्, तदुक्तयैव सृष्टेर्निष्प्रयो- . -