पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यानामद्वैत सिद्धो [प्रथमः - मुक्तिहेतुत्वव्यवच्छेदः, जीवोऽणुरीशो महानिति तयोरखण्डैक्यज्ञानं न मोक्षहेतुरिति कथमुक्तमतविरोषो नेति भ्रान्ति निरस्यति – 'यस्मान्ना. णीयो न ज्यायोऽस्ति कश्चि' दिति । किञ्चिदपि वस्तुस्वरूपं यस्मा- दात्मनो न ज्यायो न वाणीयोऽस्ति यदात्मस्वरूपं मुमुक्षुभिर्ज्ञेयं तस्य ज्यायस्त्वमणीयस्त्वं वौपाधिकं न स्वाभाविकमिति तस्मादणु ज्यायो वा बस्तुतो नास्तीति भावः । ईशज्ञानादव मोक्ष इति पाशुपतादयस्तान्निर- स्यति -–-वृक्ष इवेत्यादि । तत ईशरूपाद्यदुत्तरतरमधिष्ठानतयाऽऽनन्दघन- सद्रूपतया च श्रेष्ठतरम् । अस्मिन्नर्थे चोपबृह्मणानि– ‘सितनीलादिभेदेन यथैकं दृश्यते नमः । आन्तिदृष्टिमिरात्मापि तथैकः सन् पृथक् पृथक् ॥ 200 एक: समस्तं यदिहास्ति किञ्चि- त्तदच्युतो नास्ति परं ततोऽन्यत् । सोऽहं स च त्वं स च सर्वमेत- - दात्मस्वरूपं त्यज भेदमोहम् ॥

इत्यादिविष्णुपुराणादिवाक्यानि | यत्तु – यस्मात्परं श्रेष्ठं नास्ति अपरं स्वस्ति तच किञ्चिदल्पमित्यर्थ: ; 'पुरुषान्न परं किञ्चित् ' 'पादोऽ- स्य विश्वा भूतानी 'त्यादिश्रुतेः, 'वासुदेवात्परं नास्ती ' त्यादिस्मृतेश्च, परमपरं च नास्तीत्यर्थे तु नञनुषङ्गापत्तिः, 'तेनेदं पूर्ण' मित्यादिविरोधश्च, विश्वस्याभावे हि किं पूर्ण स्यादिति तन्न; अस्तिक्रियानुषङ्गस्य त्रिधा बाक्यभेदस्य चापत्तेरुत्कृष्टत्वनिषेधादेरज्ञेयत्वेन ज्ञेयत्वेनोक्तशुद्ध 'प्रतीत्य- ननुकूलत्वादनाकांक्षिताभिधानापत्तेश्च पूर्णत्वस्योत्तरतरत्वस्य चाविधक स्याविषादशायां शुद्धब्रह्मस्तुत्यर्थमुक्तत्वेनादोषाच्च । तमेवेत्यादिश्रुत्यु- पपत्तिः ।। 1 दरज्ञेयत्वेनोक-क. 1