पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

286 सव्याख्यायामद्वैतसिद्धां [प्रथमः मन्मते तु कार्ष्णायसा दिवाचकलघुशब्दान्तरसंभवेऽपि न दोषः । न हि घटादिशब्दा एव तदर्थविवक्षया प्रयुज्यन्ते न कलशादिशब्दाः ॥ ' को भवानिति निर्देशो वाचारम्भो अनर्थकः । शिबिकादारुसङ्घातो वचनात्स्थितिसंस्थितिः ॥ अनिष्यता नृपश्रेष्ठ तद्भेदे शिबिका त्वया । एवं छत्रशलाकानां पृथग्भावो विमृग्यताम् || क यातं छत्रमित्येष न्यायस्त्वयि तथा मयि ।' इत्यादिस्मृतिवाक्यानि चास्मद्व्याख्यान एव समञ्जसानि । 'यदमे रोहितं रूपं तेजसस्तद्रूपं यच्छुक्कं तदपां यत्कृष्णं तदन्नस्यापागादमेर- मित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणीत्येव सत्य 'मित्यादि- वाक्येषु त्रिवृत्कृतामयादिस्वरूपस्यात्रिवृत्कृततेजो बन्नस्वरूपव्यतिरेकेण विचारासहत्वममित्वमित्यन्तेन हेतूकृत्य वाचारम्भणामित्यादिना त्रिवृत्कृत- मात्रमसत्यमित्यादिरूपेण विकारो नामधेयमिति प्रपश्चितम् । त्वन्मते तु सर्वम सङ्गतम्; एकज्ञानात्तत्सदृशं तदधीनं च सर्वमन्यज्ञायत इत्यनियतम्; न हि गोज्ञाने गवयादे राजज्ञाने प्रजादेर्वा नियमेन ज्ञानम्, अनियतज्ञाने च सहशादेव किमित्युपादानम् । किञ्च संस्कृतज्ञानस्यापत्रंश कार्य- कारित्वं कथं दृष्टान्तः ; न हि शुद्धस्य सगुणस्य वा ब्रह्मणो ज्ञानं घटादिज्ञान कार्यकारि, येन तत्त्वं तत्त्वदा न्तिकं स्यात् । तथा स्वीकारेऽपि 'येनाश्रुतं श्रुत 'मित्यादि न मुख्यार्थकं स्यात् । अत एव — ब्रह्मोपासना सर्वोपासनाफलहेत्येव दान्तिकमिति परास्तम्; तत्रापि मानाभावात् श्रुतेः पीडनाच्च । 'यावानर्थ उदपान ' इत्यादि तु नोक्तार्थकम् ; किन्तु सर्वसुखानां ब्रह्मसुखान्तर्भावार्थकम् । सोऽपि मोक्षसुखमेव स्वर्गादिरूपमनोवृत्त्यवच्छिन्नसुखाभिन्नम्, विशिष्ट केवल 1 विवक्षायां -ग. 2 अनिष्यन्तां तत्र दा. क. ग. 4 मुख्यानां -ग. T