पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

282 सव्याख्यायामद्वैतसिद्धो [प्रथमः विकारः संस्कृतापभ्रंशरूपेण विक्रियमाणत्वात्, व्याकरणसापेक्षेण वागिन्द्रियेण निष्पाद्यं मृत्तिकेत्येव सत्यं नित्यं प्रवाहरूपेणानादीत्यर्थः । न वधेनास्य हन्यते एतत्सत्यं ब्रह्मपुरमित्यत्र सत्यपदस्य नित्ये प्रयोगात्सदृशशब्दस्य प्रकृतस्य सत्यपदत्वेन सदातनार्थकत्वाच्च । एकस्य ब्रह्मणो ज्ञानेन तत्सदृशस्य सर्वस्य ज्ञाने मृत्पिण्डमृन्मया दृष्टान्ताः, प्रधानस्य तस्य ज्ञानेन तद्गुणीभूतस्य सर्वस्य ज्ञाने संस्कृतापभ्रंश- दृष्टान्तः । अपभ्रंशज्ञानाद्धि यत्फलं तच्चाधिकं च सार्वत्रिकव्यवहारा- दिकं संस्कृतज्ञानाद्भवतीति संस्कृतं प्रधानम् । तादृशगुणप्रधानदृष्टान्तता- लाभार्थं च वाचारम्भणमित्याद्रावपि यथा सौम्यैकेने' त्यादिकं ' 'तनूर्वर्षिष्ठे' त्यादिवदनुषञ्जनीयमिति – चेन्न; वाचारम्भणशब्दस्य हि बागालम्बनमात्रमित्यादिभाष्यव्याख्यानेऽयं भावः -- 'येनाश्रुतं श्रुत 'मि- त्यादिसामानाधिकरण्यं बाधायाम्, अश्रुतमन्यत्सर्व यदभिन्नं श्रुतस्वरूप - व्यतिरेकेण नास्तीत्यर्थः, तथाचैकं सर्वस्याधिष्ठानमित्यर्थः प्रतिज्ञातः, तत्र मृत्पिण्डव्यतिरेकेण तद्विकारो यथा नास्तीत्यादि दृष्टान्ताः यथा सौम्यैकेनेत्यादिना प्रतिपाद्यन्ते । मृत्पिण्डपदं च मुख्यार्थकैकपद- योगाद्भूमिरूपपिण्डार्थकम्, पिण्डपदं च स्थौल्यविशेषबोधकं मृण्मय- मात्रोपादानतायोग्यतालाभाय, मृण्मयपदं च भूमिविकारमात्रार्थकम्, तथाच भूमिविकारः सर्वो यथा भूमिं बिना नास्तीत्यर्थः । भूमिविका- रत्वं च साक्षादेव वृक्षादावक्षतमिति भूमेर्विभक्तपिण्डस्य नानाविकारानु- पादानत्वेऽपि न क्षतिः । यद्यपि भूमिर्नाधिष्ठानं तथाप्यधिष्ठानावच्छेद- कशुक्तयादिव्यतिरेकेण रूप्यादि नास्तीति व्यवहारवत् भूमिविकारा- दिस्वरूप विचारदशायामाघारतावच्छेद कभूम्यादिव्यतिरेकेण तद्विकारो नास्तीति व्यवहाराच्छ्रत्या तथोक्तम् । एवं च सर्वमृण्मयमेकमृ- सदाशब्दस्य-ग.