पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धां [प्रथमः मिथ्यात्वलाभात् । 'स वा एष महानज आत्मा अजरोऽमृतोऽभय इत्यादौ सौषुप्त मात्रानिर्देशाच्च । आत्मकाममित्यादि — आत्मस्वरूपमेव कामः काम्यसामान्यं यस्य तदात्मकामं आत्माकाम्य बाधायां सामा- नाधिकरण्यमत एव अकामं कामनाशून्यमत एव शोकान्तरं शोक- च्छिद्रमदुःखमित्यर्थः ॥ न बाह्यं किंचन वेद नान्तरमिति यदुक्तं तन्न दृष्टिलोपात्, किंतु दृश्यलयादित्यलुप्तदृष्टिरूप आत्मत्याह - यद्वै तन पश्यतीत्यादि । तत्तदा सुषुप्तौ यन्न पश्यतीत्यायुक्तं तत्पश्यन्नेव न पश्यतीत्यादिरूपम् । प्राज्ञेनात्मना संपरिष्वक्त इत्यनेनोक्तो लयो दृश्यमा त्रस्येत्याशयेनाह- न तु तद्वितीयमित्यादि । ततो द्रष्टुरन्याद्वलक्षणं जडं द्वितीयं विभक्तं स्थूलं यन्नास्ति' यद्येन चक्षुरादिना यद्रूपादिकं च पश्येत्, किंत्वविभक्तं संस्काररूपं सर्वमस्तीति शेषः । अतएव 'सुषुप्तिकाले सकले. विलीने', 'स्वमपीतो भवनी' त्यादिश्रुत्यन्तराणि । तथाच संस्काररूपेण द्वैतावस्थानस्य लयस्य ब्रह्मण्युक्तत्वात्संस्कारस्य चोपादान एव स्वीका- रादुपादानत्वस्य च ब्रह्मण्यपरिणामिनि परिणाम्यविद्योपरागेण वाच्यत्वा- ज्जडयोरुपादानोपादेयत्वनिर्वाहकतादात्म्यस्य कल्पितत्वाद्विनिगमका- भावेन द्वैतसामान्यस्य कल्पितत्वसिद्धिारति भावः । यत्र वा अन्यदिव स्यादित्यादि । अन्यदिवाभासत्वरूपान्यत्वयुक्तमन्यत्, अतएव स्वप्ने प्रन्तीवेत्यायुक्ता अविद्यया मन्यत इत्यमे आविद्यकत्वेनाभासत्व- मुपपादितम् । लोकेऽपि सद्वितीयचन्द्रः प्रसिद्धोऽस्ति यस्य सादृश्यं बुध्येत । तस्मादुक्तः श्रुतिसन्दर्भों द्वैतमिथ्यात्वपरः || 278 ननु – शुक्लस्येत्यादिना नाडीस्थभगवन्मूर्तीनां शुक्लत्वादिवैल- - 1 आत्मान्यकाम्य-क. ग. 2 न जडं-ग " तन्नास्ति -क. ग. पि सद्वितीयचन्द्र इवेति प्रयोगः, नहि सद्वितीय चन्द्रः प्रसिद्धोऽस्ति - कs ग.

  • लोकेऽ-