पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

272 सव्याख्यायामसिद्धो [ प्रथमः र्थत्वे सङ्कोचः । 'एक एवाद्वितीयोसाचश्वमेधे ऋतुष्वपीत्या' दिस्मृतौ लोके च तथा प्रयोगेपि' 'एक एवाद्वितीयो भगवांस्तत्सदृशः परो नास्तीति श्रुतेः ज्ञानानन्दाद्यभिन्नत्वादेकः सर्वोत्तमत्वतः । अद्वितीयो महाविष्णुः पूर्णत्वात्पुरुषः स्मृतः । भेदाभेद निवृत्यर्थमेवशब्दोऽवधारकः । - इति स्मृत्युक्तव्याख्यानमपि तत्र मानमिति – चेन्न । आत्मा वेत्यादौ धातूनामनेकार्थत्वात् मषदित्यस्यासीदित्यर्थ इति भाष्ये व्याख्यानात् अद्वितीय इति पदोपसंहारस्य मिषदित्यस्योन्मिषदित्यर्थकतया व्याकृतं किंचनान्यद नासीदित्यर्थस्य च सम्भवेनाविरोधाच्च । अत एवासदेवे- दमग्र आसी' दिति श्रुत्यन्तरे ' असव्यपदेशा' दित्यादिसूत्रे व्याकृतमेवा- • सीदित्यर्थ उक्तः । द्वितीय शब्दस्य तु सङ्कोचेनैव सजातीयान्यबोधक- त्वोपपत्तौ तत्र पृथग्व्युत्पत्तिकल्पने मानाभावः । सजातीये सङ्कोचोऽपि यत्र किंचित्प्रकारेण बोधे स्वतन्त्रतात्पर्य साधारणधर्मोपादानं वा तत्रैव, 6 . , यथा 'अयं राजा अद्वितीयः ' 'अश्वमेषेऽद्वितीयः' इत्यादौ प्रकृते तु न तथेति तत्र मानाभावः । सर्वोत्तमत्वादेरद्वितीय इति स्मार्तव्याख्यानं त्वविरुद्धम् ; अथवा जडभेद इत्याधुक्तपक्षे सर्वजडाधिष्ठानत्वस्यै व सर्वोत्तमत्वरूपत्वात् भेदाभेदनिवृत्तिशब्देन ब्रह्मभेदाभेदयुक्त जीवेश्वरा- दिनिषेधस्योक्तत्वात् विशिष्टकेत्रलयो भिन्नसत्ताक भेदाभेदयोः स्वीकारात् । उक्तस्मार्तव्याख्यानादप्येकपदादेरन्याद्यर्थकत्वमपास्तम् । यतु – नाना- शब्दस्यानेक वाचकत्वाद्भावप्रधानत्वाद नेकत्वमर्थः, तथा च ब्रह्मण्यने- कत्वं नेति नानेत्यस्यार्थ इति, तल्लक्षणापत्त्या एकवचनप्राप्तत्वसम्भवा- दिना च निरस्तं ज्ञेयम् । अनेकाश्रये ब्रह्मण्यनेक निषेधे चानेक मिथ्यात्वं सिद्धमेबेत्यास्तां विस्तरः || वश्वमेधक्रतुष्वपरिया -ग. 2 प्रयोगोऽiपे- ग. ●