पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] एकमेवेत्यादिश्रुत्यर्थविचारः 269 नान्यदेव' इत्यादिप्रयोगेषु पार्थक्यार्थकस्य नानाशब्दस्य विनाशब्द- वन्निपातत्वेन स्वार्थिक नञ्प्रत्ययान्तनञ्स्वरूपत्वेन 'विनभ्या ' मित्या - दिसूत्रे महाभाप्यायुक्तत्वेन च तत्र किंचनेति नामार्थस्याभेदान्वयस्था व्युत्पन्नत्वात् । न हि विष्णुं किंचन विना देव इति घटं किंचन विना पट इति च प्रयुञ्जते । यतु - विभुत्वादेः प्रकृतत्वात् एवं धर्मान् पृथक्पश्यन्' इत्यादिवाक्यशेषाच्च किंचनेति विभुत्वादिधर्मशरीरादि- परमिति – तन्न ; --- - " यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ॥ एवं धर्मान् पृथक्पश्यंस्तानेवानुविधावति || यथोदकं शुद्धे शुद्धमासिक्तं तादृगेव भवति || एवं मुनेर्विजानत आत्मा भवती' ति वाक्ये - - - , ब्रह्मधर्मदृश्यमात्रस्य दृष्ट्वा तन्मात्राप्तिरित्यनेन दृश्यमात्रं निन्दित्वा जलक्षिप्तजलदृष्टान्तेन ब्रह्मैक्यज्ञानेनात्मनो ब्रह्मत्वोक्तस्तत्र त्यधर्मपदस्य दृश्यमात्रार्थकत्वात् पूर्व 'पराचः कामाननुयन्ति,' ध्रुवमध्रुवेषु, ' ' स्वप्नान्तं जागरितान्तं च.' 'भूतेभिर्व्यजायते ' ति दृश्यमात्रस्य प्रकृतत्वात् ' ईशानो भूतभव्यस्येति परत्राप्युक्तत्वात्, 'तदु नात्येति कश्चनेति पूर्वोक्तकिंशब्दोपात्तस्य तस्य किंचनेत्यनेन ग्रहणौचित्यात् । तस्माद्यदेवेह तदमुत्रेत्यादि ब्रह्मण्येव सर्वप्रपञ्चप्रसक्तिमुक्ता ब्रह्माण वक्ष्यमाणे प्रपञ्चनिषेधे सत्यप्यन्यत्र प्रपञ्चसत्वशङ्कां निरस्य एतद्वै तदिति पूर्व ईशानो भूतभव्यस्येति पश्चाच्च सन्निहितं ब्रह्म इहेत्यनूध, किंचने- त्यनेनोक्तस्य दृश्यमात्रस्य निषेधः । नानेति नञ्शब्दप्रकृतिकं भेदरूपपार्थक्यार्थकम् ; भेदे च प्रतियोगित्वं निषेधाधिकरणत्वेनोपस्थित- स्यैव न तु निषेध्यस्यासंभवादिति ब्रह्मभिन्नं किमपि ब्रह्मणि नास्तीति कठवल्लीवावार्थः । एवं बृहदारण्यकादिस्थले इह' नानेत्यत्रापि बोध्यम् । 1 शरीरत्वादि-ग. 2 स्थनेह - ग.