पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• परिच्छेदः] अद्वैतश्रुतेर्बाधोद्धारः 245 यत्किचिदुपपादकम्; तथाचार्थापत्तेरितरस्माद्भेदाभावे तत्रैवा- भेदभुतेलब्धावकाशत्वाद्धटपटभेदसिद्धयापत्तेरर्थापत्तिविषयत्वं वा- व्यम्; अन्यथा हरदृश्यसम्बन्धानुपपत्तिज्ञाननिवर्त्यत्वानुप- पत्तिश्च स्वमिथ्यात्वविषया न स्यात् ; सर्व खल्विदं ब्रह्म' इति श्रुतिः 'नेह नाना, इति ब्रह्माणि भेदमात्रनिषेधानुप- पत्तिश्च स्वाभेदविषया न स्यात् ; तथा च तत्रापि श्रुत्यन्तर- मर्थापत्यन्तरं वा वाच्यमिति तवाप्यनवस्थापत्तिरिति । मैवं वोचः; वस्तुत उपपादकत्वं नार्थापत्तिविषयत्वे तन्त्रम्, किंतूप- पादकत्वेन ज्ञातत्वम् ; अन्यथार्थापत्तिभ्रमानुपपत्तेः । तथा च येन बाघत इत्यर्थः । उपपादकमिति । यद्विनानुपपन्नत्वमन्यत्र ज्ञायते तदित्यर्थः । इतरस्मात् अद्वैतज्ञानादितः । नेह नानेतीति । निषेधपदार्थे निषेधबोधक वाक्ये चेति । भेदमात्रेति । भेदसामान्ये - त्यर्थः । 'नात्र काचन मिदास्ती' त्यादित्यादिश्रुत्येकवाक्यतया नाना- शब्दस्य भेदार्थकत्वम् ' भिदाशब्दस्यापि भिन्नार्थकतया भिन्नार्थकत्वं वा, नञ्शब्दस्य नाञ्प्रत्यया तस्य तत्पदनिष्पत्त्या तथार्थसम्भवात् । यद्यप्ययं प्रत्ययः स्वार्थिकतया महाभाष्यादावुक्तः, तथापि नञ्- पदस्यैवाघटवदित्यादाविव भिन्ननिरूढत्वसम्भवात् । तथाच भिन्न- निषेधेऽपि मेदस्य विशेषणस्य निषेध इत्याभप्रायेणेदम् । नानापदस्या- नेकार्थकत्वे तु पूर्वोक्तरीत्या भेदस्याप्यनेकत्वेन निषेध इति बोध्यम् । स्वाभेदेति । अभेदस्याखण्डब्रह्मरूपत्वेन वक्ष्यमाणत्वाद्भेदाभावातिरेकेण भेदनिषेधानुपपत्तिगम्यत्वमिति भावः ॥ अर्थापत्तिअमेति । अर्थापत्तिरूपभ्रमेत्यर्थः । येन येनोपपाद- 1 नञ्प्रत्यया - ग.