पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अद्वैत श्रुतेर्बाधद्धारः मपि - निरस्तम्; तदुक्तम्- 'हेत्वाद्यभावसार्वइये सर्व पक्षयताऽऽस्थिते । किंचित्तु त्यजता दत्ता सैव द्वारद्वयश्रुतेः ॥ इति । नुमानसमुच्चयः , । हेत्वादीत्यादि । सर्वस्मिन्पक्षीकृते हेतोरभावः; हेतोरपि पक्षत्वेन तस्मिस्तस्यासिद्धत्वात् । अद्वैतमते साध्यहेत्वोरविशेषेण साध्याविशेषश्च, तयोः पक्षस्य चैक्याद्वाधस्वरूपासिद्धिव्याप्यत्वासिद्ध्या- दिश्च ; दृष्टान्तस्यापि पक्षत्वाद्दष्टान्तासिद्धिश्च सर्वस्य भेदप्रतियोगि- त्वानुयोगित्वे विशिष्य तत्तद्रूपेण साध्ये निवेश्ये; अन्यथा केनचिद्रूपेण ते आदाय सिद्धसाधनार्थान्तरयोरापत्तेः । तथाच तत्तद्रूपेण ज्ञाने आव श्यके सार्वज्ञयापत्तिः । एवं च हेत्वाद्यभावे सार्वज्ञये चाद्वैतवादिना आस्थित आपादित सति सर्व पक्षयता पक्षयितुं पूर्व प्रवर्तमानेन त्वया पश्चात्किंचित् कानिचित्यक्तव्यानि पक्षाद्वहिष्कार्याणि । तथाच त्वया सैव त्यक्ता' तत्तत्सरूपैवा द्वय श्रुतेः सर्वाद्वैतबोधनरूपगमनाय चर- मोपायरूपा द्वाः दत्तैव । तुशब्दादनुमानाप्रयोगव्यवच्छेदः । तथाच शब्दमात्रे स्वयानुमानप्रयोगे कृतेऽपि श्रुतेरवकाशः सिद्धयत्येवेति लब्ध- पदा सा सर्वाद्वैतं बोधयतीति भावः ॥ 243 ननूक्तप्रत्यक्षं यद्यद्वैतज्ञानात्वविषयाच्च भिन्नं न स्यात्तदा भेद- विषयकं न स्यात् ; ययोर्भेदो विषयस्तयोरैक्यविषयकत्वात् भेद- प्रतियोग्यनुयोगिनोः स्वविषयीभूतयोः स्वभिन्नत्वाभावे तयोर्भेदानुप- पत्तेः । न हि स्वात्यन्ताभिन्नमुभयं मिथो भिन्नमिति सम्भवति, विरोधादिति युक्तेरुक्तप्रत्यक्षस्य स्वविषयादद्वैतज्ञानाच्च भेदं विना भेदविषयकत्वमनुपपन्नमित्यनुपपत्तिर्धाकरणिकाऽर्थापत्तिरास्तां भेदग्राहिका 1 आपादे - ख. 2 व्यक्त-ग. 16*