पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] मिथ्यात्वश्रुत्युपपत्तिः 229 प्रकृतेऽपि तुल्यत्वात् । तस्मात् 'एकमेवाद्वितीय' मित्यादि- श्रुतिर्विश्वमिथ्यात्वे प्रमाणमिति सिद्धम् ॥ इत्यद्वैतसिद्धौ मिथ्यात्वश्रुत्युपपत्तिः ॥ 1 ननु – द्वितीयाभावे स्वतन्त्रतात्पर्यमेव ; उपक्रमोपसंहारयोरुक्त- त्वेन सुषुप्तौ फलवत्त्वदर्शनेन चानन्यशेषत्वेनावांन्तरतात्पर्या सम्भवात्, अन्यथा द्वितीयाभावस्य व्यावहारिकत्वे तद्बोधकश्रुत्या व्यावहारिकद्वैत- ग्राहिप्रत्यक्षादिबाघासम्भवाचेत्यत आह – तस्मादिति । द्वितीयत्वेन द्वितीयाभावस्य स्वतन्त्रतात्पर्यायोग्यत्वादित्यर्थः । स मृत्युमाप्नोति य इह नानेव पश्यति, 'द्वितीयाद्वै भय' मित्यादिश्रुतिभिर्द्वितीयत्व- 'सामान्यनिन्दया तद्धीविरोध्यखण्डबुद्धावेवोपक्रमादिनिष्ठः न द्वितीया- भावबुद्धौ । ‘तमादेशमप्राक्ष्यो येनाश्रुतं । कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातम्' इत्याद्युपक्रमायाः, " तत्सत्यं स आत्मा तत्त्वमसि, येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्वतो ब्रह्मविद्याम् इत्युपसंहारायाः श्रुतेर्जगदुपादानाखण्डब्रह्मण्येव प्रवृत्तत्वात् । यद्यपि कष्टं कर्मे, त्यनु- भवाद्दुः खोपधायक जाग्रत्स्वमव्यापारस (मान्याभावस्य दुःखाभावरूपव्यञ्ज- कयोगेन लोके सुखमस्वाप्समिति स्मृतिमूलानुभवेन 'सुषुप्तिकाले सकले विलीने तमोभिभूतः सुखरूपमेति इत्यादिश्रुत्या "सुखमस्यात्मनो रूपं सर्वेहोपवतिस्तनु" रित्यादिस्मृत्या च साक्षिसुखयोगोल्लेखः, तथापि न द्वितीयाभावो निरतिशयसुखयुक्तः; आविद्यकत्वेन दुःख- बीजाविद्यायुक्तलात् "प्रेयोऽन्यस्मात्सर्वस्मादेष एव परम आनन्द " इत्यादिश्रुत्या शुद्धात्मन एवोक्तसुखत्वाञ्चेति शुद्धात्मैव स्वातन्त्रयेण " च 1 येनाश्रुतं श्रुतम्-ग,