पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/७५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] मिथ्यात्वश्रुत्युपपत्तिः 227 वैय्यर्थ्यापत्तिः; प्रकृते च द्वितीयत्वेन रूपेण निषेधस्यैव शास्त्रा- र्थत्वात् न कस्यापि वैयर्थ्याशङ्का । अतएव द्वितीयाभावनिषेधे पुनर्द्वितीयोन्मज्जनापत्तिरिति-निरस्तम् । उपपादितमेतन्मिथ्या- त्वमिथ्यात्वसाधने । यथा प्रतियोग्यभावयोर्निषेध्यतावच्छेदकैक्ये नैकनिषेधेऽपरसत्त्वापत्तिरिति । न च स्वेनैव निषिद्धस्य द्वितीया- • शास्त्रार्थत्वात् शास्त्रीयस्वतन्त्रतात्पर्यविषयत्वेन निर्णीतत्वात् । यत्र विहिते निषेधे च वाक्यस्य स्वतन्त्रतात्पर्य निर्णीतम्, तत्रान्यथा. नुपपत्त्या विहितेतरस्य निषेधे तात्पर्य कल्प्यते । प्रकृते तु विहिते तन्न तथा; किंतु निषेधे इत्यसङ्कोचेनैव तत्र तत् । न च - द्वितीया- भावस्यापि निषेधे निषेधस्वरूपासिद्धिरिति-- वाच्यम् । द्वितीयसामान्य- वैशिष्ट्यषीविरोधिबुद्धावेव हि महातात्पर्यमद्वैतवाक्यस्य कल्प्यते । 'द्वितीयाद्वै भयं भवति, स मृत्युमामोति य इइ नानेव पश्यति, इति निन्दार्थवादात् । उक्तविरोधित्वं च चिन्मात्रबुद्धेरपि, उपलक्षण- विधया द्वितीयाभावरूप व्यावृत्ताकारत्वात् । तथा च निषेधत्वविशिष्टे महातात्पर्याभावात्तस्य तात्विकत्वेनासिद्धिर्न दोषः । एवमेकरूपेण विधिनिषेधस्थले विधिवैय्यर्थ्यानुरोधेन निषेधसङ्कोचेन विहिते स्वतत्र- तात्पर्य कल्पनेऽपि प्रकृते निषेधशेषतया द्वितीयाभावविधायकस्याप्यद्वैत- वाक्यस्य निषेधमहा तात्पर्यकत्वेनावैय्यर्थ्यान्न विधेये स्वतन्त्रतात्पर्यम्, प्रयोजनाभावात् । उक्तविरोधिधीरूपशेषविघातापत्तेर्वाक्यभेदापत्तेश्चेति भावः । अतएव द्वितीयत्वेन द्वितीयसामान्य निषेधादेव । निरस्तमिति । द्वितीयाभावस्य तत्वेन निषेध एव द्वितीयोन्मज्जनं स च प्रकृते नास्तीति तदनापत्तिरिति भावः । निषिद्धस्य - निषिध्यमानस्य | -- 2 निषेधे महाग. 1 स्वरूप-ग. 15*